पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
गोपीगीता-

स्त्वां विचिन्वते इति काकुलभ्योऽर्थः। यद्वा वैधर्म्येण दृष्टान्तः। अन्यास्तु विचिनुयुः एताः गोप्यः नैव विचिन्वते सर्वासांप्राणाः प्रियतमाः त्वन्तु प्रियमात्रम् न प्राणसमः। अतस्त्वया दृश्यता- मित्युक्त्या झाटितिदर्शनंप्रार्थयन्ते अहो गोपीनां चातुर्यम्प्रकारा- न्तरेण ब्रुवन्ति, भयं प्रदर्शयन्ति। यद्वा वः इवार्थः उत्प्रेक्षावाच. कोऽस्तु ॥६६॥

 त्वयि धृतासव इत्यनेन यथा घटादि कार्यस्य जीवनं मृद- धीनं तथा त्वदधीनमस्माकं जीवनमिति दर्शितम् यता वेत्यादि श्रुत्या तथैव प्रतिपादनात् अयम्भावः वादा हि चत्वारः। आर- म्भवादः। परिणामवादः। विवर्त्तवादः। लौकिकवादश्चेति । एषु मध्ये विवर्त्तवादः। श्रुतिसम्मतः। यतोवेत्यादिश्रुत्या सौम्यै केनमृत्यिण्डेनेत्यादिश्रुत्या च तथैव दर्शनात् यथा घटमुकुटा दयो मृत्सुवर्णविवर्त्ता एवं सर्वकार्यजातं ब्रह्मविवर्त्तमिति श्रुत्य. भिप्रायः। घटमुकुटादयोऽपि रज्जुसर्पवत्कल्पिता एव श्रादावन्ते च तेषामसत्त्वात् अतएवैककारणज्ञानेन सर्वकार्यज्ञानं सम्पद्यते। तदुक्तम् विद्यारण्यस्वामिभिः। "आरम्भी परिणामी च लौकिक- श्चैककारणे। ज्ञाते सर्वमतिं श्रुत्वा प्राप्नुवन्त्येव विस्मयम्।” अज्ञस्य विस्मयोभवेदित्युक्तमेवार्थ प्रपञ्चयति आरम्भीति


 ग्रन्थविस्तीर्णभयेन सर्वेष्वर्थेषु सर्वपदानि। न योजितानि यथायोगं विद्वद्भिर्योजयित्वा अर्थो बोद्धव्यः ।पदच्छेदस्तु दर्शित एव तदनुसारेणा योजना सुलभैव।