पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
गोपीगीता-

राधिके युवति इति सम्बोधनम् । ते तव जन्मना व्रजः अधिक जयतीत्यर्थः । शेषं विशेषणम्पूर्वार्द्धस्य यथायथं योज्यम्। दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते इति राधिकाम्प्रति- गोपीनामुक्तिः। कृष्णाधीनाऽहंकथं कृष्णं परित्यज्य भवतीनां समीपंप्राप्नुयामिति राधिकाभिप्रायं बुद्ध्वाश्रीकृष्णं प्रार्थयन्ते । हे जय ! सर्वोत्कर्षेण विद्यमान हेकृष्ण ! हे दयित! हेप्रिय! त्वया दृश्यताम् पश्चाद्धेति हे युवति!प्रियेण साकन्त्वया दृश्यतामिति योज्यम् ॥ ६१ ॥ यद्वा हे दयितदृश्येति एकरूपदमस्तु । प्रिय एव दर्शनार्हः इत्यर्थः त्वया दृश्यतामिति भङ्गश्लेषः तां राधिकां त्वां दिक्षु तावकास्त्वयि धृतासवो विचिन्वते । नहि प्रियतमां स्वप्रियां त्यक्वा एक एव कृष्ण आगच्छेत् किन्तु मिथुनीभूयै- वागच्छेदित्यभिप्रायः॥ ६२॥ यद्वा दयितदृश्यतामित्यत्र दयित- दृशि अ तामितिच्छेदः। दयिता प्रिया दृग् दृष्टिर्यस्य स तस्मिन्- निति त्वयीत्यस्य विशेषणम् । हे ! वासुदेवेत्यर्थः वसुदेवपुत्र- त्वेन सम्बोधने तु गोपीभिरहं वसुदेवपुत्रत्वेन ज्ञातः आश्चर्यमे- तदिति वुद्ध्वा भयभीतस्सन् अस्मच्छान्त्यर्थमायास्यत्येवेति गोप्पाशयः एतावत्कालपर्यन्तन्तु नन्दपुत्रत्वेनाहं सर्वैर्ज्ञातः कथं गोपीभिर्वसुदेवपुत्रत्वेनाऽहमाहूतः। कदाचिन्नन्दः शृणुयात्तर्हि मां त्यजेत्तस्मात्युनर्मामपदेन सम्बोधनं नैवकुर्वीरन्निति भयेन झटिति दर्शनं दास्यत्येवेतिगूढाशयः। युवतीसम्बोधनपक्षेऽपि दयित- दृशीतित्वयीत्यस्य विशेषणमूह्यम । अ इति युवत्याः सम्बोध. नार्थकमव्ययम् तां प्रसिद्धां त्वां विचिन्वते इत्यादिशेषं विशेषणं श्रा