पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
गोपागीतार्थकौमुदीसहिता


अहो सापत्न्यम्। तस्मादहमपि नैव दृश्यो भविष्यामीत्यक्षमां कदाचित्कुर्यादेतद्विचार्य तामिति प्रयोगः। विनापि चं गौरश्वः पुरूषो हस्तीत्यादी समुच्चयदर्शनात् ॥ ५५ ॥ यद्वा तावका- इत्यत्र ता इत्येकं जसन्तम् व इत्येकमव्ययमिवार्थे तथा च या गोप्यस्त्वां न विचिन्वते ता का न त्वया स्पृहणीयाः इति किंशब्दार्थः। सादृश्यवाचकेन वशब्देन स्पृहणीयतुल्याः सम्बन्ध. मात्रेण न तु वस्तुत इति व्यज्यते ॥ ५५ ॥ यद्वा ता इति पृथक् वका इति पृथक् या न विचिन्वते ताः गोप्यो वकासुरा एव निष्ठुरत्वादित्यभिप्रायः ॥५६॥ यद्वा अव्रजः गतिशून्यो ना पुमान् व्रजः गतिमानिति विरोधाभासस्तु व्यापकत्वेन गति- शून्यः पुरुष ईश्वरः कार्यवशान्मायी सन् जन्मादाय व्रजती त्यर्थेन समाधेयः ॥५७ायद्वा पादश्रून्यत्वाव्यापकत्वात्स्थाणुत्वा- च्चाव्रजो गतिशून्योऽपि ना भवान् के मारुतंजयति अपाणिपादो जवनो ग्रहीते'-तिश्रुतेः। 'यद्भया द्वाति वा तोऽय' मितिचस्मृतः 'मारुते वेधसि व्रघ्ने पुसि का इत्यमरः॥५८॥ यद्वा कं सूर्यं तेजसा अधिकं जयति। 'सूर्यस्तपति यद्भयात् ।' इति स्मृतेः भर्गः शब्देन गायत्र्यां तथा प्रतिपादनात्। "तेजोभिरापूर्य जगत्स- मग्रम्” इति स्मृतेश्च। अतो भवदुपासकाः सूर्यमण्डलमध्य- वर्त्ति भवत्तेज एव भवत्स्वरूपं ब्रह्मेति मन्यमानास्तदेवोपासते। ५६ ॥ यद्वा हार्दान्धकारनाशकत्वात्सूर्यं जयति ॥ ६० ॥ यद्वा जयतीत्येकपदमस्तु जया चासौ तीच जयतीति कर्मधारये 'पुम्वत् कर्मधारये'-ति पुम्वद्भावः। सर्वोत्कर्षेण विद्यमाने