पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
गोपीगीता-


मासां प्रेमास्पदम् अतोमां विचिन्वते। यतो मामयिपदेन सम्बोध- यन्ति । अवधारणाय तु पदमपि प्रयुञ्जते । आसां प्रेमबलादहंदर्श- नीया इति सख्या बुद्धिर्भवेदिति गूढाशयः । एवं दयितपक्षऽपि योजनीयम् ॥५०॥ यद्वा "दयितं वल्लभस्प्रियम्” इत्यमराह- यितपदम्प्रियपरं । तदेव इतजन्तं दयावन्तमाह। अस्माकं दयापि भवदुपरि संजायते, भवतो दयापि अस्माकमुपरि संजायते, कुत स्त्यजसि नहि परस्पर दयावतस्त्यागो युक्तः ॥५१॥ यद्वा दया अस्ति यस्य स दयी स चासौ तश्चोरस्तत्सम्बोधनम्" तकारः कीर्तितश्चौरे" इतिकोशः । एतेनास्मत्सखीचोरोभवान् न तुचो- रान्तरवन्निष्ठुरः अपि तु दयी अस्मत्सखीं दास्यत्येवेति भावः। दयाशब्दस्य शिखामालासंज्ञादिमध्ये पाठो नास्ति कथमिनिरिति चेत्सत्यम् । तस्माद् दानगत्याद्यर्थकदयधातोः पचाद्य चि दय- शब्दस्तस्मादत इनिरिति इनि र्भवतु । दयदयाशब्दोपर्यायौ अर्थस्तु स एव दयधातो रक्षणार्थत्वात् ॥५२॥ यद्वा दृश्यता- मित्यत्र दृशि इति एकम्पदम् अ इति एकम् तामित्ये कम्पदम् तथा 'चहेअ हेवासुदेव! हे दयित!तांपरोक्षभूतां सखीं त्वां च दृशिचक्षुषि पश्यन्त्यइति शषः। हृद्य वस्तु पर क्षमपि पुरोवर्तीवचक्षुषा दृश्यते। शेषं विशेषणं योज्यम् । “ इदमः प्रत्यक्षगतं समीपवर्त्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात्" एतत्पक्षे पञ्चविधधात्वर्थमादाय दयितपदार्थो यथायथं योजनीयः ॥५३॥ यद्वा हे दयित ! त्वां तां च तव प्रियां च विचिन्वते अयम्भावः । मामेव विचिन्वते न तु प्रियाम् ।