पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
गोपीगीतार्थकौमुदीसहिता-


व्यङ्गार्थप्रति कवयो विप्रवदन्ते। तदर्थम्प्रत्येव सहस्रशो ग्रन्था निमग्नाः। किञ्च ताभिः प्रयुज्यमानम्पदमेकमर्थम्बप्रयुज्यमानम्पदमेकमर्थम्बो- धयति। तदेव विचार्यमाणं सदनेक विवक्षितमर्थम्वोधयति। किञ्च युवतियुवतीशब्दौ युधातु प्रकृतिकौ तदर्थौ च मिश्रणा- मिश्रणे, एवञ्च युबतिप्रयुज्यमानः शब्दः अविचार्यमाणः सन् ऋजुमेकमर्थं बोधयति। स एव बुद्धिमद्भिर्विचारशालिभिर्- विचार्यमाणस्तु विविधान्विचित्रार्थानवगमयति। यथा "ऊह निश्चलनिस्यन्दे"त्यादौ। अतस्ता युवतिसंज्ञका', इति सुधियो विचारयन्तु। किम्बिहुना विवक्षितार्थपूरणाय पदस्यावृत्तिमेक- शेषं तन्त्रं च कुर्वन्ति। यथा "हलन्त्यम्” 'शेषे' इत्यादौ तस्मा भङ्गसङ्कीर्णश्लेषादिवलेनानेकार्थं विधाय श्रीनारायणचरित्र वर्णनं नदोषावमिति सर्वम्पुष्कलम् ॥ ४६ ॥ यद्वा त्वयीत्यत्र तु अयीतिच्छेदः "अनुनये त्वयो"-त्यमरः। एवञ्च हे अयि ! हे युवति ! तुरवधारणे "स्युरेवन्तु पुनर्वैव मवधार- णवाचका.” इत्यमरः। त्वयि धृतासनः एव अतस्त्वांनिचिन्वते। गोप्य इति शेषः। एतेन त्वाम्बिनास्माकं प्राणा एव गच्छेयः। त्वद्धीना अस्माकम्प्राणा इत्यर्थप्रतिपत्त्या मां विना सखीनां मरण स्यादिति बुद्ध्वा प्रियमपित्यक्त्वा कदाचिदृश्या भवेत्। प्रियोऽपि प्रियांत्यक्तुमशक्नुवन् दृश्यो भवेत्। एवं सति उभयो- र्लाभादस्माकभिष्टसिद्धिरिति गोपीनामभिप्रायोऽवधारणार्थ- कलुपदगम्यः। भङ्गश्लेषमहिम्ना त्वयीत्येकम्पदम्, तु अयि इति च च्छेदः। अनुनयार्थका यिशब्दःप्रेमास्पदत्ववाचकः। अह-