पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
गोपीगीता-


व्यवस्था॥४८॥ यद्वा युवतीसम्बोधनपक्षे हे ति!हे युवति!ते ज- न्मना व्रजः अधिकं जयति । हि अत्र व्रजे इन्दिरा शश्वदाश्रयते । सर्वं तव जन्मना शुभशंसि। अतस्त्वं जयेत्यन्वयोऽस्तु। एतदर्थं पृथक्करणं सार्थकम् । नहि पृथक्करणं विना युवती सम्बोध्यते । भङ्गसंकीर्णश्लेषे एतादृशं पृथकरणं नहि दोषमावहति । नहि पृथक् कृतं पदमनर्थकम्, येन दोषः स्यात् ; किंच श्रीधरादि भिरपिअकृतमर्थंबोधयसि इति सुधीभिर्मयि ईर्षा नैव कर्त्तव्या। ते हि स्वामिनः युवतीकौटिल्यबचनं बहुशो नानुबभूवुः यथा वयमनुभवामः। किंच गोप्यो मत्प्रियामाशिषं प्रयुञ्जानास्तां वर्णयन्ति न तु ईर्ष्या कुर्वन्ति इति बुद्वा प्रियः प्रसन्नो भवेत् । ततो नः सुरतंदास्यतीत्यभिप्रायेण तामेव पूर्वं वर्णयामासुः किंच लोकेऽपीत्थं व्यवस्था दृश्यते राजदारेभ्यो योरोचते, स सम्राजेऽपिरोचते "न गृहं गृह मित्याहुर्गृहिणी गृह मुच्यते" इत्यादिना तस्या एव सर्वकार्यसाधनत्वं बोध्यते । विवाहेऽपि वधूं पुरष्कृत्यैववर: स्वगृहं प्रविशतीत्यादि प्रसिद्धमेव । किम्ब- हुना विना दारान् नैवाहिताग्निः सम्पद्यते । इत्याद्यनेकमानं स्त्रीप्रशंसाप्रतिपादनपरमस्ति । अतः पूर्वं युवतीसम्बोधनं श्रेयः। किंच ताः वामाः कुटिलाः यतोऽधमपदंप्रयुञ्जाना- स्तद्गम्यव्यङ्गयार्थं प्रति कविं मोहयन्ति । यतस्तद्


 *वधूः पत्न्यांस्नुषानार्योः नवपरिणीतायाञ्चेति हैमः एवञ्च वरस्य ये जन्यास्ते तत्पित्रादयश्च वरशब्दोपलक्षिताः।