पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
गोपीगीतार्थकौमुदीसहिता-


निश्चयः स्यात् । हेतुः स्यादितिभावः । 'अभावे नह्यनोनापि" "हि हेताववधारणे” इत्यमरः ॥ ४७ ॥ यद्वा जयतीत्यत्र जय इति पृथक् ति इति पृथक तिशब्दो नामैकदेशन्यायेन शत्रन्त युवतीशब्दस्य सम्बोधनैकवचनान्तमाह । तिप्रत्ययान्तस्य तु गुणेन भाव्यम् । तथा च हे ति ! हे युवति ! ते जन्मना ब्रज इन्दिराशश्वत् अत्र ब्रजे इन्दिरा शश्वदाश्रयते वा,हि यस्मात्कार- णात् त्वं अधिकं जय । सर्वोत्कर्षेण वर्त्ततामित्याशिषं प्रयुञ्जते । यद्वा भङ्गश्लेषवलात् हे युवति! भवतीजयतीत्यन्वयः। अस्मिन्प. क्षे जयेति पृथक्करणमनर्थकं स्यादिति तु न शङ्कयम् । पश्चाद्विशिष् टान्वयेन तत्सार्थक्यात् । एतेनास्मदाशिषैव तवोत्कर्ष इति गोपीनां गूढाशयः । हे दयित! हे जय! इत्यन्वयोऽस्तु वा। एतदर्थम पिपृथक्करणं युक्तमेव । हे युवति ! त्वया दृश्यतामित्याद्युत्तरार्द्ध- युवतीपक्षेपि योजनीयम् । युवतींसम्बोध्य तद्वर्णनं श्रेयः, पश्चा- न्नन्दनन्दनपक्षे योजनीयम्। यां युवतीमादाय श्रीकृष्णोऽन्तर्दधौ तस्या एव पूर्वं वर्णनमुचिम् । सा तु गोलोके द्विभुजनारायणेन शप्ता । ततो व्रजे बृषभानु सुता सती जज्ञे, नाम्ना राधिकेति- स्यातिं गता। परस्परंशापस्तु ब्रह्मवैवर्त कृष्णजन्म खण्डे द्रष्टव्यः । राधाकृष्णः सीतारामः उमामहेश्वर इत्यादौ प्रधान- बोधकराधादिपदपूर्वस्यैव प्रयोगात्, ईश्वरस्यानेकावतारा अपि प्रधानकार्याः । अतोऽभ्यहिँतत्वात्तच्छन्दाः पूर्वम्प्रयुज्यन्ते, अन्यथा नरकपातः श्रूयते । किञ्च या युवती सा परममङ्गलम्, अतोमङ्गलकार्ये युवत्यः अग्रेसर्यो हृष्टमानसा गच्छन्ति एषाऽनादि-