प्रसिद्धौ हेत्वर्थे वा । ननु अधमाः स्त्रीजात्यः कथं मम स्वरूपं
वित्थ इति तु न शङ्कनीयम् । वयं तावकास्त्वयि धृतासवश्च,
एतेन वयं न साधारणनार्यः। अपि तु त्वत्सम्बन्धिन्यः त्वयि
धृतासवश्च पुनश्च गोप्यः तदर्थश्च गावः इन्द्रियाणि सर्वान्त-
र्यामिरूपेण पाति इति गोपः ईश्वरस्तस्य स्त्रियो गोप्यः प्रकृत-
यः। स्तस्यां गर्भं दधाम्यह’-मित्युक्तःत्वत्सम्बन्धादेव सर्वं जानीमः
एतद्वोधनायैव व्यासेनापि गोप्यः ऊचुरित्युक्तं । न तु नार्य ऊचु-
रिति
कूटस्थस्यापि ते जन्म अधिकं विशेषो नतु सामान्यम् । यतो
भवान् ना पुरुषः पुरि शेते इति पुरुषः। तत्रोषति प्रकाशते वात्वाम्
विचिन्वतो तावकाः इमा गोप्यः नारदादयो भक्ता वा अयं भा
वः । सर्वलक्ष्मीसम्यन्नोऽपि सम्राट् स्वकौतूहलायैव उद्योगमा-
तनुते, एवमीश्वरस्य तदापि जन्म स्वकौतूहलायैव न तु किञ्चि.
ल्लब्धये एतत्सर्व 'लोकवत्तु लीलाकैवल्यम्' इति सूत्रण प्रतिपा-
दितम्। शेषं विशेषणं यथास्थं योज्यम् ॥४५॥ यद्वा अत्र गोष्ठे
इन्दिरा अशश्वत् ते जन्मना तु इन्दिरा शश्वत् । यतो भवान्
श्रीपतिरित्यभिप्रायः ॥ ४६॥ यद्वा अभावे अशब्दः तथा च
अत्रायते अत्रः तत्सम्बोधनम् “सुपि” इति योगविभागात्कः।
तव जन्म ब्रजः इन्दिरा च अधिकं जयति, भवान् ना पुमान् न
तु अवला नयति प्रापयति पदार्थानिति नृपदार्थः । या तु बल-
शून्या सा कथं पालयेत्। पुरुषो हि सर्वपालको भवति । स्वाब-
लास्तु अवश्यं पालयति, इत्थं सर्वोत्कर्षेण वर्तमानः पालन-
प्रभुरपि भवान् न पालयतिहि हेताववधारणे वा । अस्मिन्विषये
।
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२८
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
गोपीगीता-