पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
गोपीगीता-


यद्वा अत्र इन्दिरा अशश्वत् । अत्रत्या जनाः कदाचिद्दरिद्राः कदाचित्सम्पन्न लक्ष्मीकाः। ते जन्मना तु इन्दिराशश्वत्, अतः अधिकं जयतीत्यादि योज्यम् ॥ ३८ ॥ यद्वा जन्मना ना जन्मना इति तृतियेति' योगविभागात्कर्तृकरणे इति वा समासः। जन्म नैव करणेन भवान् ना मनुष्यः अतएव व्रजः गत्याश्रयः । अत्र व्रजे श्रय ते इन्दिरा अत्र शश्वत् श्रयते । स्वप्रियामिन्दिरा विहाय कुत्र गच्छसि ते जन्मना व्रजो गोष्ठ-मधिकं जयति ॥ ३९ ॥ यदा दया अस्ति यस्मिन् स दयी स चासौ तश्चोरः तत्सम्बोधनम् हेदयित!अस्मद्दुकूलं चोरयित्वापि दया तु कृतवान्, अतो नित्ययोगे इनिः। चोरान्तरन्तु प्राणानेव हरति दया तुदूरापास्ता। अन्यद्विशे षणं यथायथं योज्यम् ॥४०॥ यद्वा त्वयि धृतासवः वयं काः न का अपि त्वदधीनप्राणा वयं युवत्यो न तव प्रेमास्पदम्।यदि तु स्याम- स्तर्हि अस्माविहाय कुत्र गतोऽसि।अत्र पक्षेतावेतिपूर्ववत्सम्बो- धनम्॥३१॥ यद्वा त्वयि धृतासवोऽपि गोप्पः ताः पूर्वमतीवप्रिया- वका एव जाताः यथा वकास्तवारयस्तथैव जाताः इत्यभिप्रायः ॥४२॥ यद्वा हे त !हे अवक!वकासुरभिन्न त्वयि आः 'पास्तुस्यात् कोपपीडयोः' इत्यमरः । कोपपीडे जाते वकासुर एव प्राणान् अद्यात्, भवांस्तु न वकासुरः । स्वप्रियासून कुतोऽत्तीत्याशयः ॥४३॥ यद्वा तावका इत्यनेनैव प्रेमास्पदत्वं बोध्यते तस्य धृतासव इत्येव विशेषणमस्तु। तेन च प्राणावशेषत्वबोधनद्वारा अतीवप्रेमा


 *अत्र यथाइनिस्तथा ५२ पक्षे वक्ष्यते ।