यद्वा अत्र इन्दिरा अशश्वत् । अत्रत्या जनाः कदाचिद्दरिद्राः
कदाचित्सम्पन्न लक्ष्मीकाः। ते जन्मना तु इन्दिराशश्वत्, अतः
अधिकं जयतीत्यादि योज्यम् ॥ ३८ ॥ यद्वा जन्मना ना जन्मना
इति तृतियेति' योगविभागात्कर्तृकरणे इति वा समासः। जन्म
नैव करणेन भवान् ना मनुष्यः अतएव व्रजः गत्याश्रयः । अत्र
व्रजे श्रय ते इन्दिरा अत्र शश्वत् श्रयते । स्वप्रियामिन्दिरा विहाय
कुत्र गच्छसि ते जन्मना व्रजो गोष्ठ-मधिकं जयति ॥ ३९ ॥ यदा
दया अस्ति यस्मिन् स दयी स चासौ तश्चोरः तत्सम्बोधनम्
हेदयित!अस्मद्दुकूलं चोरयित्वापि दया तु कृतवान्, अतो नित्ययोगे
इनिः। चोरान्तरन्तु प्राणानेव हरति दया तुदूरापास्ता। अन्यद्विशे
षणं यथायथं योज्यम् ॥४०॥ यद्वा त्वयि धृतासवः वयं काः न का
अपि त्वदधीनप्राणा वयं युवत्यो न तव प्रेमास्पदम्।यदि तु स्याम-
स्तर्हि अस्माविहाय कुत्र गतोऽसि।अत्र पक्षेतावेतिपूर्ववत्सम्बो-
धनम्॥३१॥ यद्वा त्वयि धृतासवोऽपि गोप्पः ताः पूर्वमतीवप्रिया-
वका एव जाताः यथा वकास्तवारयस्तथैव जाताः इत्यभिप्रायः
॥४२॥ यद्वा हे त !हे अवक!वकासुरभिन्न त्वयि आः 'पास्तुस्यात्
कोपपीडयोः' इत्यमरः । कोपपीडे जाते वकासुर एव प्राणान्
अद्यात्, भवांस्तु न वकासुरः । स्वप्रियासून कुतोऽत्तीत्याशयः
॥४३॥ यद्वा तावका इत्यनेनैव प्रेमास्पदत्वं बोध्यते तस्य धृतासव
इत्येव विशेषणमस्तु। तेन च प्राणावशेषत्वबोधनद्वारा अतीवप्रेमा
*अत्र यथाइनिस्तथा ५२ पक्षे वक्ष्यते ।