सति ते जन्मना व्रजोऽधिकं जयतीति पश्चात्क्रियापदमस्तु ।
व्रजोत्कर्षे त्वदुत्कर्षों हेतुः, न.तु जन्मनेति भावः ॥ २६॥ यद्वा
हे त ! अस्मदुकूलचोर 'तकारः कीर्तित श्चौरे' इति कोशः ।
अवतीति अव रक्षक, हे क ! हे वेधः! हे अयि !
धृतासवः
केन-
चिदुपायेन प्राणशेषाः गोप्यस्त्वां विचिन्वते । त्वया दृश्यताम् ।
एवमस्तु । विधिप्रार्थनयोर्वां लोट् अन्यथा चतुर्थी अवस्था
स्या दिति भावः ॥ २७ ॥ यद्वा हे इन्दिराश्शश्वत् ! 'राघवत्वे
भवेत्सीता' इति वचनान्नहि भवन्तमिन्दिरा कस्मिन्नपि अव-
तारे त्यजतीति सम्बोधनार्थः । हे दयित ! हे दृश्य ! तावकाः
1
नारदादयो भक्ताः तां तव श्यामसुन्दरमूत्तिं त्वां सर्वान्तर्या-
मिणं सर्वहृदिस्थं त्वयि धृतासवः समाधिनिष्ठाः नारदा
दयो विचिन्वते मृगयन्ते। स्वप्रियनारदादिभि दृश्यताम् भवा-
निति शेषः । अन्यथा समाधिनिष्ठानां भवन्तं मृगयमाणानां
स्वभक्तानामपिप्राणहानिः स्यादिति भावः । अतस्ते तव तां मा-
।
यां स्वाच्छादिकां त्वं विचिनु । हे अ! इति सम्बोधनम्। यया
भवन्मायया कृत्वा नारदादयस्त्वां न विदुः । तां मायां त्वमेव
मृगय नान्यः समर्थः । 'मम माया दुरत्यया, मामेव ये प्रपद्यन्ते
मायामेतां तरन्तिते' इति वचनात् ॥ २८ ॥ यद्वा हे दयित!
हे दृश्य ! हेजय ! ते जन्म अधिकं यतो व्रजोऽपि इन्दिराश-
श्वत् सन् सदा लक्ष्मीयुक्तः सन्नधिकं श्रयते,श्रेष्ठत्वम्प्राप्नोति।
*हृद्यभ्यां चेति सप्तम्यलुक्।