यथा मण्डपादि । शेषावतारेण धृता आसा धरा येन तत्सम्बो-
धनम् । अ ते इतिच्छेदः । हे अ ! वासुदेव ! ते तव तां
प्रेयसी विचिनु । त्वमिति शेषः । तव प्रेयसीं वयन्तु
नैव विचिनुमः । तां स्वप्रेयसीं लब्ध्वा अम्मान्विहाय
ताम्प्रत्येवासक्तो भवान्भविष्यतीति ईर्ष्या व्यज्यते । हे दयित !
हे दृश्य ! इति द्वेसम्बोधने वः युष्माकं सम्बन्धिन्यः 'सम्बन्ध-
सामान्ये षष्ठी' पूज्यत्वाद्वहुत्वम्, अतएव तावकाः इमा गोप्यः
त्वयि सप्तम्यर्थो विषयत्वम् । त्वद्विषयकप्रेमवत्यः त्वां विचि-
न्वते न तु त्वत्प्रेयली त्वां विचिनुते । यस्यां भवतोऽतीवा-
नुरागः सा तु भवन्तमुपेक्षते । इमाः गोप्यस्तु भवतोऽनुरागा-
भावेऽपि केवलसम्बन्धमात्रेण त्वां विचिन्वते इति
ईर्ष्योक्तिः ॥ ३२॥
यद्वा हे धृतास ! हे अ ! हे दयित ! हे दृश्य ! त्वयि धृता- स्ः तावकाः दिक्षु त्वां विचिन्यते इति योजना ॥ २४ ॥ यद्वा ताः तव प्रेयस्यस्तु धृतासवः इत्यनेन प्राणशेषत्वं बोध्यते, त्वां प्रियतमं वित्रिन्वते । त्वां विना शेषा अपि तत्प्राणाः गच्छेयुः । प्राणरक्षार्थं त्वां विचिन्वते । प्राणिनां प्राणा अतीव प्रियतमाः 'आत्मनस्तु कामाय सर्वम्प्रियं भवति' इति श्रुतेः । वकास्तु धृतासवो बलिष्ठाः सन्तो युद्धार्थं त्वां विचिन्वते । अयिपदमनुनयार्थम् । 'अनुनये त्वयि' इत्यमरः । शेषम्पदं यथायथं योजनीयम् ॥२५॥ यद्वा जयतीति सप्तम्य- न्तम् त्वयीत्यस्य विशेषणमस्तु । सर्वोत्कर्षेण वर्तमाने त्वयि