सामग्री पर जाएँ

पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
गोपीगीतार्थकौमुदोसहिता-


कदेशन्यायेन दिपदेन दितिजानां बोधः । दितिजाश्च ते क्षुताः दिक्षुताः टुक्षुशब्दे बाहुलकत्वात्कर्त्तरिक्तः । युद्धार्थं शब्दं कुर्वाणाः दिति जावकाःत्वयि धृतासबः त्वदधीनप्राणवन्तः युद्धार्थं त्वां विचिन्वते । एतेन नायकस्योदात्तत्वं स्पष्टम् । वका इति बहुवचनेन अनेका एव ते इति व्यज्यते । अनेकेभ्य एव भवानलमिति च त्वदधीनप्राणवन्त इत्यनेन व्यज्यते । एतेन भगवतो लोकोत्तरमहिमा वर्णितः ॥ २० ॥ यद्वा दश्छेदः सोऽस्ति येषान्ते दिनः तेच तेक्षुताः छेदनधर्मिणः शब्दं कुर्वाणाः दनुजाः वकाः। “दकारोवै कलत्रे च छेदे” इतिकोशः ॥२१॥ यद्वा मास्तु बाहुलकत्वात् कर्तरि क्त:, किन्तु कर्मण्यस्तु । तथा च भवता युद्धार्थं क्षुताः आहूताः ॥ २२ ॥

 यद्वा आस्यते उपविश्यते चराचरै र्या सा * आसा धरा, रूढयौगिकोऽयमासाशब्दः। रूढयौगिकोऽपि जगदीशैः स्वीकृतः


 *कर्मप्रत्ययान्तम् । अासते सर्वे यस्यामिति "हलश्चेत्यधिकरणे" घन् वा यद्वा तास वस्तु आम् विचिन्वते इतिच्छेदः । त्वां विचिन्वते यत् तत् वस्तु सिद्ध ब्रह्म विचिन्वते । त्वं वस्तु अाम् एतदङ्गीकुर्म इति भावः । वस्तु तुन्नन्तं नपुंसकम् “कसेरुजतुवस्तूनि" हित्वा इत्यमरः । कृष्णबिचयनस्य ब्रह्मविचयनस्य च यत्तभ्यामैक्यारोपान्निदर्शना हि शब्दस्य हेतुवाचकत्वेन तेन यत्तदोः परामर्शः । यद्वा अस्यन्ति साधून्- क्षिपन्तीत्यसाः राक्षसाः पृताः स्वाधीनीकृताः असा येन तत्सम्बोधनम् असुक्षेपणे पचाद्यजन्तः ।