पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
गोपीगीता-


ऋपि कारकविभक्तिनिमित्तकत्वेन वा कमित्यत्र पूर्वोक्तार्थे द्वितीया व्याख्येया ॥ १३ ॥ यद्वा अत्र व्रजे ते इन्दिरा शश्वत् हि यतः त्वं अत्र लक्ष्मीविषये व्रजे श्रय लक्ष्मीं विहायान्या भवान्नेव गच्छतु इत्यभिप्रायः ॥ १४॥ तद्वा ते जन्मना व्रजः अधिकं जयति हि त्वर्थे अव्रज व्रजभिन्नो द्वारकादिदेशस्तु अजयति, ईषज्जयति भवच्चरणानधिष्ठानादिति भावः । , अस्मिन्पक्षे आव्रज इतिच्छेदः । ईषदर्थक आङ् ॥१५॥ यद्वा जन्मना अव्रज इतिच्छेदः"अभावे न ह्य नोनापी"-त्यमरोक्तः पूर्वः अशब्दोऽभावपरः ॥ व्रजभिन्नद्वारिकादिन्तु अजयति न जयति इत्यर्थः । जान्वस्य रुजतीतिवत्समाधेयः ॥१६॥ यद्वा ते जन्म प्रियदृश्यतां श्रयते ॥१७॥ यद्वा हे दयित हे प्रिय ! दयितं वल्लभं प्रियमित्यमरः । हे दृश्य सुन्दरत्वाद्दर्शनार्हा तां भवन्मूर्ति श्यामसुन्दरीं सकलसुन्दरसन्निवेशामित्यर्थः धृतासवः प्राणिनो विचिन्वते सामान्यतः प्राणिपदोपादा- नात्तिर्यञ्चोऽपि भवन्मूर्ति सकृन्नेत्रगोचरीभूतां स्मरन्तो वने पुनर्मृगयन्ते, अहो तव मूर्तिलावण्यमित्यभिप्रायः ॥१८॥ यद्वा तावका भक्ताः त्वयि धृतासवः सन्तो दिक्षु तां मूर्तिं हार्दाकाशे कूटस्थं त्वां विचिन्वते मोक्षार्थमिति भावः। एते- न भक्तेन्द्रियाणि चक्षुरादीनि बाह्यानि भवन्मूर्त्या स्वस्यां विषयेभ्यच्छित्वा निबद्धानि तेषां चेतांसि अपि धारणाख्यसमा- धिना कूटस्थे एव बाह्यविषयान्परित्यज्यासक्तानि बभूवुरित्यर्थः ॥ १६॥यद्वा दिक्षु ताः इति एकं पदम्, वका इतिएकम्पदम् नामै