पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
गोपीगीतार्थकौमुदीसहिता--


पुरुषो भवान् अधि अधिकं यथा स्यात्तथा कंब्रह्माणं जयति।अधि- कमिति, एकं पदमस्तु वा तदन्तर्वार्तिकं शब्दं पृथक्कृत्यार्थो योजनी यः। एतादृशस्यापि ते जन्म ॥ ६॥ यद्वा जन्मना ना पुमान् सन् जयति भवान्। स्त्रीजन्मतः पुरुषजन्मनः श्रेष्ठत्वादिति सङ्कीर्णश्लेषः एतत्पक्षे जि जये अकर्मकः ॥ ७॥ यद्वा ते जन्म अधिकं जयति अतः अव्रजोऽपि ना त्वं दुष्टनिग्रहार्थं जन्म श्रय गृहाण।ते इन्दिरा इत्यादिशेषपदं यथायोग्यं योजनीयम् ॥ ८॥ यद्वा अ हे वासुदेव त्रायते त्र,सद्रक्षक पचाद्यजन्तस्त्रैङ्धातुः तस्मात्सम्बुद्धौ नपुंस- कह्रस्वत्वे साधु यो ब्रह्माणं विदधाति'इत्यादिश्रुत्या ब्रह्मणो जग- दुपादानत्वप्रतिपादनात् तद्विशेष्यतापर्यान्नपुंसकत्वम्, एतेन श्रीकृष्णावतारस्य साक्षाद् ब्रह्मपरत्वं प्रतिपादनीयं प्रतिपादि- तम्भवति ॥९॥ यद्वा अत्र इत्येव सम्बोधनमस्तु अं वासुदेवं त्रायते इति अत्र तत्सम्बोधनम्। एवं च आतोऽनुपसर्गेक' इति के आलोपे च साधु वासुदेवो हि स्वमेव स्वं रक्षति, न तु तस्य पालकान्तरमित्यद्वैतसिद्धिः। तथा च हे अत्र, इन्दिरा लक्ष्मीः शश्वन्निरन्तरं यस्मिन्नेतादृशं ते जन्म अधिकं जयति ॥१०॥ यद्वा ते इन्दिरा जन्म व्रजश्च जयति । शेषं विशेषणं यथा- यथं योज्यम् ॥ ११ ॥ यद्वा ब्रह्मापहृतगोगोपालादीनां पुनः पूर्व- सदृशजन्मना कृत्वा कं ब्रह्माणं जयति ॥१२॥ यद्वा जन्मना कृत्वा कमुद्दिश्य जयति सच्चिदानन्दरूपे भगवति उत्कर्षा- पकर्षयोरभानात् भवान् न कस्याप्यपेक्षया जयति, इति भावः । जिधातोरकर्मकत्वेऽपि अन्तर्भावितण्यर्थत्वेन गम्यमानक्रियाया .