पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
गोपीगीता-

अस्मिन्पक्षे आचारक्विवन्तात्तशब्दात्कर्तरि क्विपि अल्लोपे सप्तम्येकवचनान्तः। स च अत्र शब्दस्य विशेषणम्, हि प्रसिद्धौ। एतदुक्तम्भवति । भवज्जन्मतः पूर्वं ब्रजश्चोरवदाचरति स्म । इदानीन्तु श्रेष्ठत्वमतनोदिति भावः । आचारक्विवन्तात्कर्त्तरि क्विपोऽनभिधानमिति पक्षे तु अर्थान्तरे जयतीति विशिष्टस्यान्वये नान्वयराहित्यदोषः । सङ्कीर्णश्लेषे पक्षान्तरेणान्वये वैयर्थ्याभावादिति विचार्यम् ॥ २९ ॥ यद्वा अब्रजोऽपि ना पुमान् भवान् जन्म श्रयते, अत्र जन्मनि शश्वत् इन्दिरा अधिकं रुक्मिण्याद्यवतारेण जयति, हि प्रसिद्धिः ॥३०॥ यद्वा काः ब्रह्माणः त्वां विचिन्वते । अस्माभिर्दुष्टनिग्रहार्थ अवतारं गृहाणेति प्रार्थ्यमानो भगवान् कस्मिन्कुले अवतीर्ण इति प्रतिकुलं मृगयन्ते इति भावः । काः इति बहुवचनेन प्रतिकल्पमनेके ब्रह्माणः इतिव्यज्यते। अस्मिन्पक्षे हेत!x इति सम्बोधनम्, अज्ञानचोर अज्ञाननाशक इत्यर्थः। अव इत्यपि सम्बोधनं गत्याद्यर्थकम्। अव इत्येकं सम्बोधनमस्तु वा चोरमज्ञानमवति जानातीत्याद्यर्थो ऽस्तु ॥३१॥ यद्वा यतः अव्रजो ना जयति अतः अत्र लोकरक्षणविषये कं ब्रह्माणमाश्रयते अपि तु नेति काकुः।ताम्प्रकृतिन्तुश्रयते।


 ×तकारः कीर्तितस्वीरे इति कोशः

 *अस्मिन् पक्षे आ अव्रज इतिच्छेदः प्राश्रयते इत्यन्वयः । छन्दसि व्यवहिता श्वेत्यनुशासनात् । यद्वा मास्तु श्राङ्छेदः । श्रिधातुमात्रादपि तदर्थलाभसम्भवात् ।