पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२
उपोद्घातः-


जीव्यं कारणं तथा च कार्यकारणभावसङ्गत्या उपोद्घाता- नन्तरम्पदार्थनिरूपणम्। सङ्गतिश्च षोढा । तदुक्तम् "सप्रसङ्ग उपोद्घातो हेतुतावसरस्तथा । निर्वाहकैककार्येक्ये पोढा संग- तिरिष्यते” । इति (१) तथा च वक्ष्यमाणपदार्थोपपादकत्वमुपोद्- घातत्वमिति सिद्धम्। लोके तूपजीव्यशब्दः कार्यपर इति विशेषः। निरूपणीयार्थनिष्ठा सङ्गतिः। लक्षणप्रकारकबोधानुकूलो व्यापारो निरूपणमधिकेनालम् । (१)पकृतार्थसिद्धयनुकूऊचिन्ताविषयत्वं तत्त्वम्, तथा वाहु:-"चिन्तां प्रकृतसिद्धयर्थामुगेदवातं विदुर्बु धाः।"