पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
उपोद्घातः-


विद्यन्ते । एतेन सस्यसार इति प्रतीयते। तद्वद्भागवतसारोऽयमि- त्यर्थः । एतेन तन्निर्मातुर्विद्यावत्त्वं प्रतीयते 'विद्यावतां भा- गवते परीक्षा' इति दर्शनात् ।

 किञ्च मञ्जरीशब्दो लोके प्रयुज्यमानस्सुवर्णगुणस्य मनोऽप- कर्षकत्वम्बोधयति । शास्त्र प्रयुज्यमानोऽपि तथैव, औषधेऽपि लोकेऽपिजरीशब्दः प्रयुज्यते । एतद्दृष्ट्वा अग्निनेव मनो दग्धम्, विषयान्निवृत्तमित्यपि प्रतीयते । अत एतत्सर्व विचार्यैव विचार- शालिभिस्तन्नाम व्यरचि । अहन्तु बिचारलेशशून्यस्तादृशार्थवन्ना- म विरचयितु नेशे। अतो 'गोपीगीतार्थकौमुदी' इति सुस्पष्टार्थना- मैषा नन्दसूनुमुदे भूयात्, शुभम् ।

 गाव इन्द्रियाणि पातीति गोपः कूटस्थः तत्सृष्ट्वा तदनु प्रावि- शत् । 'आण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते' 'ह्युदतिष्ठत्ततो विराट्' इत्यादिना तथा प्रतिपादनात् । तस्य स्त्रियो गोप्यः तस्यां गर्भं दधाम्यहम्” इति स्मृतेः । तास्तु मायाः। ताभिर्गीयते ब्रह्म यस्यामुपनिषदि सागोपीगीता,तस्याःकौमुदी प्रकाशिकेति तदर्थः।

 उपोद्घातप्रदर्शनस्यायम्भावः-वक्ष्यमाणार्थसङ्गतिरेव फलम् । उपोद्घातश्च बोधकत्वरूपः।सङ्गतिश्चानन्तराभिधानप्रयोजकजि- ज्ञासाजनकज्ञानविषयानुकूलसम्बन्धो निरूपणीयनिष्ठा, असङ्गत्या प्रयुज्यमानेऽर्थेऽप्रामाण्यसंशयात् । अत एव नासङ्गतम्प्रयुञ्जी- तेति महाभाष्यकाराः । तस्मात्सर्वत्र ग्रन्थेषु सङ्गतिम्प्रदर्श्यैव पदार्थवर्णनं ग्रन्थकाराणां शैली दृश्यते, उपजीव्योपजीवकभा- वसङ्गतिरेवोपोद्घातसङ्गतिरित्युच्यते। उपजीव्यतेऽनेनेति उप-