एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीगणेशाय नमः
गोपीगीता
(गोपीगीतार्थकौमुदीटीकासहिता)
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
स्त्वधृतासवस्त्वां विचिन्वते॥१॥
जयतीति । यद्वा 8 भङ्गाभङ्गसङ्कीर्णश्लेषादिना य- थामति स्फुरितानर्थान् व्याख्यास्यामः 'श्राङीषदर्थ इत्यमरोक्तरेीषदपि व्रजः आव्रजः ते जन्मनाऽधिकं