पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११९
गोपीगीतार्थकौमुदीसहिता-


नम्। 'सर्वज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ज्ञाने परिसमा प्यते'। इत्यादि स्मृतेः ॥ २७ ॥ यद्वाईर्ष्योक्तिः। तथाहि त्यजे. त्यत्र त्या युवत्या अज छागेतिकृष्णसम्बोधनम्। अजवत्सुरत लम्पटेत्यर्थः। अतएव त्वं मनाक् ईषदेव च एवार्थः, एतेन छागत्वादन्यं न जानासि केवलं मैथुनमेवजानासि, अस्माक मपि तदेवाभीष्टमस्माकं हृद्रुजां निषूदनं तदेवदेहीति तात्पर्यम्। छागत्वारोपेण कृष्णः कुपितो भवेत्ततोदर्शनं नैवदद्यादिति भयेन च्छागत्वं निषेधन्ति। स्वज न इति ८छेदः। भवान्न अजपदवाच्य श्छागोऽपितु हे स्वज सुष्टुअज। नहि लौकिकाजत्वमारोप्यतेऽपितु त्वदुक्तमेवाजत्वंत्वयिवर्तते। तदुक्तम् 'मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यह'- मित्यादिना असौ सर्गविस्तारस्त्वत्त. एवेति स्वजत्वं तव ॥२८॥ यद्वा मनागिति स्वजेन सम्बध्यते। एवञ्च बहुप्रजोत्पादकत्वेन सुरतपरत्वेन च छागसादृश्या- दीषदजत्वम्परन्तु अजन्यत्बादजत्वमिति स्वजत्वमितिभावः ॥ २९ ॥ यद्वा हे च ! हे चन्द्र! कृष्णोऽपित्वमाह्लादक इति कृष्ण चन्द्रेति सर्व सम्बोधयन्ति । रुजां निषूदनंयत्तदेव देहि य तस्त्वमेवौषधीशः ॥३०॥ यद्वा हे च! भास्कर सर्वप्रकाशक ॥ ३१ ॥ यद्वा अस्मद्दुकूलचोर! अज्ञानचोर वा उल्लेखः ॥३१॥ यद्वा मनागिति च विशेषणमस्तु ईवच्चन्द्रेत्यर्थाः। त्वकलां शिरसि विभ्रच्छिवोऽपिचन्द्रचूडामणिनामा जात इति स्तुतिः। 'चश्चन्द्रमाः समाख्यातो भास्करे तस्करे मतः इति कोशः ॥३३॥ यद्वा हे स्वज! नोऽस्मान् न त्यज त्वत् वयम् मनाक्। वयं स्त्रियो