पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
गोपीगीता-


यचंलाति गृह्णाति तं विश्वं व्यापकमजमित्यादि योज्यम्। शेष पूर्ववत् ॥ २०॥ यद्वा आत्मन्नित्यपि सम्बोधनम्, आमित्यङ्गी कारे, नस्त्वत्स्पृहा त्ययि स्पृहा ॥ २१॥ यद्वा त्वदितिपञ्च म्येकवचनमस्तु। भवतो रुजां निषूदनं यत्तत्प्राप्यत इति शेषः। पूर्वार्द्धमपि युवतीपक्षे योजनीयम् ॥ २२ ॥ यद्वा हेति !हे अजेति सम्बोधनम्। आद्य युवत्याः अजेतिकृष्णस्य हे मन! मन्यते जाना तीति मन, कृष्ण सम्बोधनम्। युवतीपक्षे मना इति प्रथमैकवच. नान्तम्। हे युवति!वं ज्ञानवतीत्यर्थः। अगित्युभयसम्बोधनम् प्रथमैकवचनान्तम्वा ॥ २३ ॥ यद्वा हेति! हे युवति त्वमज- मना अजं कृष्णं मन्यते जानातीत्यजमना ननु कर्मण्यणि ङीव वृद्धी स्यातामितिचेत्पचाद्यचि अजस्य मना इति कर्मषष्ठया समासः। अक् च अमिति सम्बोधनम्वा प्रथमैक वचनान्तम्वा कुटिलगतिमतीत्यर्थः। स्वसखीम्विहाय कपटिना साकं गता अतस्त्वमप्यजित्यर्थः ॥ २४॥ यद्वा व्यक्तयाद्यर्थकाञ्जेः क्विपि अगिति भवतु, एतत्पक्षे धात्वर्थानुसारेण यथासम्भवमर्था योजनीयाः॥ २५॥ यद्वा ति इति पृथक् अजमनागिति पृथक्, तीति सम्बोधनम्वा,वासुदेवोपासकास्ताननक्ति जानातीत्यजमनाक्, एतेन युवत्या वासुदेवोपासकविषयकज्ञानवत्वम्प्रतिपादितम् ॥ २६ ॥ यद्वा अञ्चुगतिपूजनयोरित्यस्यैव भवतु, तच्चनिषूदनमित्य- स्यैव विशेषणमस्तु। एतत्पक्षे अजमनैरजोपासकैरच्यते ज्ञायते पूज्यते वा, यत्तद जमनाक् तच्च ब्रह्मज्ञानम्, तदेवसर्वरुजां निषूद-