पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
गोपीगीतार्थकौमुदीसहिता-


सम्बोधनम्। अस्माकं हृदेवभवानित्यर्थः। नोरूजामित्यादि यो- ज्यम् ॥ १४॥ यद्वा सु अजन इति च्छेदः। कूटस्थनित्यत्वात्त व जन्म नास्तीत्यर्थः। सुत्यजेत्यन्वयः ॥ १५ ॥ यद्वा हेमनाक् त्यजेति सम्बोधनम्, अस्मान् सदा नैव त्यजतीत्यर्थः। चो हेतौ यस्मान्न उपरि त्वत्स्पृहा ॥१६॥यद्वा अशब्दं लाति गृह्णातीत्य लम्।वासुदेवंविश्वमङ्गलं त्वांव्यक्तिर्माया हन्त्री, यतोवनौकसां मत्स्याद्यवताराणां व्यक्तिर्जन्म। अस्मिन्पक्षे हन्त्रीतितृन्नन्तम्। न लोकेति षष्ठीनिषेधाद्द्वितीया। जगद्रूपेणमायैवपरिणमत इति व्यक्तिर्माया। क्तिन्नन्ताजस्तदर्थत्वात् ॥ १७॥ यद्वा विश्व मङ्गलमित्यत्रविश्वमिति पृथक् विश्वं जगदङ्गेनावयवेनला- ति गृह्णातीत्यङ्गलम् 'विष्टभ्याहमिदंकृत्स्नमेकांशेनस्थितो जगत्'। इत्यादिस्मृतेः। अहो मायाबलम् एतादृशमपित्वां हन्त्री ॥ १८ ॥ यद्वा तीति युवतीसम्बोधनम् पूर्ववत्। अजम् अ ना अगितिच्छेदः।अ इति सम्बोधनार्थमव्ययम्। हे युवति! अज त्यज। ननु ममायं ना कथंत्यजेयमिति चेत् अक् ना कुटिलगति- मान् ना त्वामपि कथंचिदस्मानिव त्यजेत् 'अक कुटिलायांगतौ' क्विवन्तः। रुजांनिषूदनम् चोऽप्यर्थः रुङ्नाशक मप्यजं त्यजयद्य. प्यसौ अम्मदुङ्नाशकस्तथापि त्यज। असौ कुटिलगतिमान् किङ्किङ्करिष्यति, यच्छब्दो हेतुपरः। त्वत्स्पृहात्मनां नस्त्वत्स्पृहा अतः कुटिलसङ्गं मा कुरु इत्युपदेशं कुर्मः। अस्मिन्पलक्षे स्वजन हृदिति युवतीसम्बोधनमस्तु, रुजां निषूदनमप्यौषधंकटुचेत्त्य- . ज्यते ॥ १९ ॥ यद्वा हेति। युवति अङ्गलम् नः।अस्माकमंगमव-