सामग्री पर जाएँ

पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
गोपीगीता-


दित्यतो मायां स्तुवन्ति। हे अलं हन्त्रि!माये नः अस्मान् त्यज। अतः संसारान्मुक्ता भविष्यामः।'यद्येषोपरता देवी माया वैशारदी' इत्यादिना तथैव प्रतिपादनात्। सर्वोपनिषद्रा. द्धान्त एवायम् आत्मनामात्मपदवाच्यानामीषज्जी वानां त्वत्स्पृहा। अस्माकं त्वयिस्पृहा, अतस्तवापि अस्मदुपरि स्पृहा। 'येयथा माम्प्रपद्यन्ते' इति दर्शनात्। अतस्त्वत्प्रसा- दान्मुक्ताः स्यामः। वयं तव जनाः अस्माकं हृद्रुजां तापत्र- यस्य निवदनं स्यात्। यच्छदो हेतुपरः। 'यत्तद्यत' इत्यमरः। मनाक् चेत्यस्यायं भावः। ईशजीवयोर्यत्किञ्चिदेव भेदः पूर्वोक्तस्तस्यापि निषूदनं स्यादिति। एतेन सकलोपनिषत्तत्वं प्रतिपादितम्। एवं कापिलमतञ्च प्रदर्शितम्। तदुक्तम्। प्रकाश्य विनिवर्तते प्रकृतिः॥९॥ यद्वा रिङ्गते तुभ्यं त्वत्स्पृहा- त्मनां नः स्पृहा। स्पृहे रीप्सित' इति सम्प्रदानत्वम्। अयम्भावः भवान्मत्स्यावतारमादाय संसारपर्यटनं करोति अस्मिन्न- वतारेऽप्पाननमटति एतादृशेत्वत्क्लेशं दृष्ट्वा भवत्प्रेमास्प- दत्वात्स्पृहा जायते ॥ १०॥ यद्वा गत्यर्थस्येगेर्धातोर्ज्ञानार्थ- त्वान्नित्यज्ञानवते तुभ्यं स्पृहा। अस्मान्ज्ञानोपदेशेनोद्धरिष्यतीति भावः ॥ ११॥ यद्वा हन्नितिविजन्तं सम्बोधनम्, हे हन्!भवान् त्र्यलम्। अस्मान्संसारे पातयित्वा मारको भवान् कामादिमार णेऽपि समथ इति भावः ॥ १२॥ यद्वा हे स्वजन! ज्ञातिजन आत्म जन वा भवानस्माकमात्मेत्यर्थः।'स्वोज्ञातौ' इत्यमरः। आत्मीयोधनमपित्वमेवेति तात्पर्यम् ॥ १३ ॥ यद्वा हृदित्यपि