सामग्री पर जाएँ

पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११५
गोपीगीतार्थकौमुदीसहिता-


स्तमपि त्यज।चशब्देनानुक्तसमुच्चयार्थेनैतत्सर्वं बोधितम्। अतो वयं संसाररोगं मुक्त्वैक्यं गच्छामः। तत एव विश्वं संसारो मङ्गलं ब्रह्मरूपं ब्रह्मैव मङ्गलम्। तदुक्तं श्रुतौ 'अशुभानि निराचष्टे तनोति शुभसन्ततिम्, स्मृतिमात्रेण यत्पुसां ब्रह्मतन्मङ्गलम्प- रम्'। 'मङ्गलां भगवा'-निति स्मृतिश्च ।। ४ !! यद्वा स्वजना भक्तास्ते हृदि यस्य तेषु हृद्यस्येति वा समासः। तेन 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यह' मितिदर्शनेनेशभक्तयोर्मिथः स्नेहो वर्णितः ॥ ५॥ यद्वा हे अवृजिन ! पापशून्य, एतेन भवान् संसारकूपे न जीवान् पातयति, अतः पापशून्येत्यर्थः। यदि मत्कृतो न संसारश्चेदाकस्मिक एव स्थादित्यत बाहु:-ते तव हन्त्री अलम्। त्वत्सम्बधिनी हन्त्री । जीवान संसारकूपपातेन मारणशीला। दैवी ह्येषा गुणमयी' इत्यादिना प्रतिपादिता मायैवालम् समर्था । मायाकृत एव संसारः। किम्बहुना जीवहन्त्रीति। माययैव तवापि संसारः। ते तुभ्यमपि अल. मत्यर्थ हन्त्री। हे ब्रज ! हे विश्व ! हे अङ्ग ! यतो वनौकसां मत्स्याद्यवताराणां व्यक्तिः सापि वृजिनहन्त्री, अलं विश्व मङ्गलम् ॥ ६॥ यद्वा व्यक्तिः पृथक् अङ्गते पृथक्, गत्यर्थकोड गिधातुः शत्रन्तश्चतुर्थ्येकवचनान्तः। तथा च अलमत्यर्थ मत्स्याद्यवतारेणाङ्गते तुभ्यं हन्त्री। अतएव ते वनौकसां व्यक्ति ॥७॥ यद्वा हन्त्र्यलमित्यत्र हन्त्री अलम् इतिच्छेदः । वं शान्तिमन्तं पुरुषं अ न हन्त्री। 'लकारः सान्त्वनेपिच'इति क्रोशः ॥ ८ ॥ ननु मायाया नित्यत्वात् सदा संसारपातः स्या-