पादितम् । भजतामभजताञ्च पापनाशकत्वोक्त्या परमकारुणि-
कत्वन्तूचितम्। हेअंग! ते तव ब्रजवनौकसांव्यक्तिर्जन्म त्र्यलम्
त्रिभ्यः शत्रुभ्योऽलम् समर्था। कामक्रोधलोभात्मकमुख्यशत्रुनाशे
समर्था। एते मुख्यनरकद्वाराणि स्वकीयानां किल्विषं भवानवश्यं
नाशयति। अत इमे कामादिकं शत्रु जेष्यन्त्यतो नैषां नरक-
पातः ॥१॥ यद्वा व्रज सर्वत्रग विभो इति सम्बोधनम् ॥२॥
यद्वा ते तव त्वत्सम्बन्धिनी वनौकसाम् जलौकसां मत्स्यकृर्मा-
द्यवताराणामरण्यौकसां वराहनृसिंहाद्यवताराणाम् गेहौकसाम्।
'ओकस्त्वाश्रयमात्रेस्या'-दिति हैमः। गेहः ओक आश्रयो
येषामवताराणामित्यर्थः। वामनरामपरशुरामबलदेवकृष्णाद्यव-
ताराणाम् 'भुवन वन'-मित्यमरः कानन वन'-मित्यमरः वने सलि
लकानने। वनं प्रस्रवणे गेहे इति हैमः ॥३॥ यद्वा हे स्वजनहृदि
त्यपि सम्बोधनम्। स्वजनानां हृदेवेति तदर्थः। एतेन हृदयाध्य-
वसायोक्तया प्रेमास्पदत्वम्प्रतिपादितम्। रुजां संसाररोगाणां
यन्निषूदनंतत्त्वमसीत्यादिमहावाक्यार्थज्ञानं, तद्देहि इति शेषः।
स्पृ-हात्मनां त्वयि प्रेमास्पदत्वं मन्यमानानां भक्तानांनोऽस्माकंजीवानां
त्वत् त्वत्तो यो मनाक् ईषत्, अयम्भावः। यद्यपि तार्किकनये जीव
ब्रह्मणोर्गुणाः केचन समाना एव तथापि सर्वज्ञत्वं नित्यज्ञान-
वत्त्वं त्वय्येव न तु जीवे। सेश्वरसाङ्ख्यमतेऽपि सोपाधिकएव-
तुभेद ईषदेव बुद्धचादयस्तु समाना एव, तस्मादाययोरीषदेवभेद.
*से अलंकुमाय इतिवत्समासः।