पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२०
गोपीगीता-


नीचदासिका गोप्यो भवांस्तु स्वजः ईश्वरः शरणागता नः कुतस्त्यजति, वयं त्वज्जनास्वत्स्पृहात्मानश्च तो हृदुजां यन्नि- षूदनमिति भावः ॥ ३४ ॥ यद्वा नम् बुद्धं सौगतं निषूद त्यज च सपदि बुद्धः प्रचुरः स स्वमतं विस्तारयति। तथा सति महाऽ- निष्टः स्यादिति तं जहि। हे स्वज!नोऽस्मान्न निषूद न त्यज नञः सिंहावलोकादिन्यायेनोभयत्र सम्बन्धः, पतत्पक्षे अङ्गलमिति नम्विशेषणमस्तु। नहि शरीरादृतेऽन्य आत्मेति तन्मतमतएवाङ्ग मेवात्मत्वेन लाति गृह्णातीति तदर्थः। यतः सौगतबुद्धिर्जन्म वा विश्वं जगद्धन्त्री अलम समर्था। अस्मिन्पक्षे अवृजिनेति कृष्ण सम्बोधनम् पूर्ववत्। सौगतजये मा सामर्थ्यं नास्तीति नैव वक्तव्यम्। हे अङ्ग! ते व्यक्तिव्रजवनौकसामलं वृजिनहन्त्री, अतः सुगतजये समर्थैव,बुद्धाहि बुद्ध्युपासका बुद्धिरेवात्मेतित. न्मतम् ।बुद्ध्युपासकानांबुद्धावेव लयः,पुनश्च संसारभ्रष्टाएवेति- तन्निषूदनमलम्, भूषण मितिभावः। पुनश्च शरीरात्मवादिनो बुद्धस्य शरीरायस्पृहा। 'ऋणं कृत्वाघृतं पिबेत् भस्मीभूतस्यदेहस्ये'. त्यादिना शरीरायैवस्पृहयाति। पुनश्चत्वत्तः प्रात्मनां देहानामी- षत् अयमर्थः। परमात्माहि सर्वशत्वादिशक्तिमान् एतच्च यस्य ज्ञानेति श्लोके स्पष्टमेव। अजरामरत्वंपरमात्मनि देहेतु न तथेत्येवं भेदः। चैतन्यादिकन्तूभयोः समानमेतदेवेषत्त्वम् अतएतनृमतमीषदिति सौगत जहीति भावः। 'नकारः सौगते बुद्धा' विति कोशः॥ ३५ ॥ यद्वा हे निषूद! पवाद्यच् नं निषूदेति पश्चाक्रियापदमस्तु। शेषं पूर्ववत् ॥ ३६ ॥ यद्वा हे ब्रजवनेति .