सामग्री पर जाएँ

पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
गोपीगीता-


त्वमेव च्युतो नष्टः। अयम्भावः। अच्युत इत्यत्रनन्तत्यु रुषमाश्रित्यैकम्पद सम्पाद्याच्युतपदवाच्यत्वेऽयं नन्दसूनुरच्युतो नच्योतत्ययं महापुरुष इति सर्वे त्वामज्ञासिषुः। अतः प्राक् तव अच्युतेतिविशिष्टमेव सम्बोधनं बभूव। अत ऊर्ध्वन्तु अइति पृथक् सम्बोधनम् च्युतेत्यपरंसम्बोधनम्; तस्मात्तव परमक्षतिः x सम्पन्नेति गूढाशयः। वयन्तु आगता गृहान्प्रति निवृत्ताः। त्वत्स- काशाद्गृहम्प्रति निवृत्ता इत्यभिप्रायः। अव्ययस्यानेकार्थत्वात्। कितवपदेऽयमभिसन्धिः। कि इति पृथक तवेति पृथक्, तवेति सम्बन्धसामान्ये षष्ठी। त्वत्सम्बन्धित्वद्भक्तसनकादि कि कस्य ब्रह्मदेवस्थापत्यं किरिति वक्तव्ये कि इति नपुंसकत्वन्तु स्वदेहार्ध स्त्रीस्वरूपं विधाय मिथुनीभूय जगत्कर्ता स्त्रीलम्पटो ब्रह्मदेवस्तदपत्यं नपुंसकम्। यतः सनकादयः स्त्रियं न गृहन्ति, अतो नपुंसकधर्मिण


= त्वाम्विहाय वयं गृहान्गच्छामः एकाकिनं त्वां व्याघ्रादयो भने युः। अस्माभिःसाकंसुखभोगोऽपितवनासीदित्युभयानिष्टप्राप्त स्त्वमेवच्युत इतिभावः  *अच्युतपदादुभयार्थबोधादिति भावः। अश्चासौच्युत इति कर्म- धारयपक्षे नित्यकूटस्थोऽपि वासुदेवो मायामवलम्व्य मर्त्यः सञ्च्युत इति बोध्यम्। कर्मधारयेप्रशब्दो वासुदेवपरः।

 ×एतावत्कालपर्यन्तमच्युतपदार्थ स्त्वमा सीरतः परं स नष्टः हे अ त्वंच्युतपदेन सम्बोध्यो भवसीत्यच्युतस्यच्युतत्त्वंमहानिष्टम्। सम्भावितस्य चाकीर्तिमरणादतिरिच्यते। इति स्मृतेः।