पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
गोपीगीतार्थकोमुदीसहिता-


इतिबोधकम्। तथाच तव कि एव त्यजेत्। अन्यः कः पुमान् त्यजेदिति एतेन सनकादीनां नैष्ठिकब्रह्मचर्यप्रतिपादनद्वारा श्रीकृष्णस्य परमनैष्ठिकब्रह्मचर्यं प्रतिपादितं भवति ॥ ६॥ यद्वा अनु अस्माकं पश्चादयते, एति गच्छती- त्यन्वयेति सम्बोधनम्॥१०॥यद्वा अस्माकं पतयः सुताश्च तेषा- मनुपश्चादयते, इति तथा ॥१२॥ यद्वा वयस्यत्वात्पतिसुतस्यैव पश्चाद्गमनशील ॥१२॥पद्वा भ्रातृबान्धवेत्यत्र भ्राता बान्धवो यस्य भ्रातुर्बान्धव इति समासद्वयेन परम्पराश्रयत्वम्, ॥१३॥ यद्वा गतिविद इति षष्ठयन्तं युष्मदोविशेषणमस्तु, गमनविदस्तवेत्यर्थः अनेकगमनानि भवान्वेत्ति ॥१४॥ यद्वा जीवानां परलोकगमना- दिकं कूटस्थनित्यत्वाद्भवानेव वेत्ति ॥१५॥ यद्वा ज्ञानविज्ञानविद स्तव ॥१६॥ यद्वा हे उद्गीत! उदय स्वर्गादिलोके गीतं गानं गुणवर्णनं यस्येत्यर्थः ॥ १७ ॥ यद्वा मोहिताः मया शोभया स- म्पदा वा ऊहो वितर्कः स सजातो यासान्ताः। तव शोभासम्प. दर्शनेनायं कश्चिद्दिव्यः पुमानित्यस्माकं वितर्को जायते परन्तु वयं मोहिताः वैचित्त्यवत्यः, यतस्त्वं कितवो धूर्तः। कितवं विना निश्यागता योषितः कस्त्यजेत्। स्वकार्यसाधनतत्परत्वे सति परकार्यविघटनक्षमत्वङ्कितवत्वम्। स्वस्य श्रीकृष्णस्य यत्कार्यं गोपीनिष्ठस्वविषयकस्नेहजिज्ञासारूपं तत्साधनपरत्वं कृष्णस्य परकार्यञ्च गोप्यभिलषितसुरतकार्यं तद्विघटनक्षमत्वं कृष्णस्ये- ति समन्वयः॥१८॥