पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
गोपीगीतार्थकौमुदीसहिता-


डडगताः । शाकपार्थिवादिः । अच्युतं यथा स्यात्तथा ऽडगता वा ॥ ४॥ यद्वा गतिविदो वयम्, तव गतिं गमनं चयंजानीमःगत्यर्थस्य ज्ञानार्थत्वाज्ज्ञानविषयकज्ञानवत्योवयमि त्यर्थः। एतेनानुव्यवसायात्मक ज्ञानवत्य एव नत्वालोचनात्मकबा- लमूकादिज्ञानतुल्यज्ञानवत्य इति सूचितम्॥५॥यद्वा तव गतिविदः त्वद्विषयकज्ञानवत्यः। त्वद्विषयक ज्ञानविचारशालिन्य इत्यादिचातु- रर्थिकाबोध्या:। विदधातवश्चत्वारः सत्तायां विद्यते ज्ञाने' इत्या- द्युक्तेः ॥६॥ यद्वा हे उद्गीतेति सम्बोधनम्, उत्कृष्टं गीतं गानं यस्य सः, अतीव श्रोत्रसुखदगानशालिन् ॥ ७ ॥ यद्वा वेदास्त- वात्यन्तं गानं गायन्ति, अतो वयं मोहिताःवैचित्यं गताः। तव योषितश्च एतादशस्तवानुकूलाः स्त्रियोनिशि कः पुमान् त्यजेत् ८॥ यद्वा को ब्रह्मदेवस्त्यजेदिति काक्वा ब्रह्मदेवाऽपि नैव त्यजेत् निशि स्त्रीत्यागोऽनुचित एव, कितव एव त्यजेत्। पुरुषसाधार- ण्यबोधकेन सर्वादिकिंशब्देनापि ब्रह्मदेवबोधो भवेत्तथापि केवल ब्रह्मदेवप्रतिपादककशब्देन सर्वजगत्स्रष्टापि परमज्ञानी ज्ञानोपदेष्टापि नैवत्यजेदिति विशेषः प्रतीयते । कितवशब्दगतेन कशब्दगतेन च पुंस्त्वेन पुमान्नैव त्यजेदिति ध्वनिः। यदि तु कितवत्वात्त्वमेव त्यजसि चेदच्युताः स्वधर्मस्थाः पतिव्रताः सत्यो वयं गता गृहान्प्रतीतिशेषः । अयम्भावः । यदि त्यजसि चेदस्माकं पातिव्रत्यंनैव भग्नमतोऽच्युता वयमतोऽस्माकं पतयोs स्मान् ग्रहोष्यन्ति अस्माकं न कापि क्षतिः । अतःअ हे वासुदेव!