पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
गोपीगीता-


कापि यानाधङ्गत्रुटावपि झटिति तां युनक्ति; एतेन शिल्पादि कौशल्यवर्णितम् ‘यानाद्यङ्गेयुग' इत्यमरः ॥४२॥ यद्वा युगन्द्वन्द्व यथा स्यात्तथा अयत एति वा गच्छति तत्सम्बोधनम्, अय- म्भावः। भवानेकाकी नैव गच्छति द्वन्द्वीभूयैव गच्छति;अह्नि सस- खागच्छति, रात्रौ तु सखीभिः सह गच्छति, अतस्ते त्रुटिर्युग्मवि. च्छेदो युगायते; अतस्त्वामित्यादि योज्यम्। एतत्पक्षे सामान्य युग्मवाची युगशब्दः प्रकरणवलान्मिथुनपरः। स्त्रीपुंसावाह। प्रकरणस्य शक्तिसङ्कोचकत्वात् ॥ ४३ ॥

पतिसुतान्वयभ्रातृबान्धवा

  नतिविलङ्ध्यतेऽन्त्यचुतागताः

गतिविदस्तवोद्गीतमोहिताः

  कितव योषितः कस्त्यजेन्निशि ॥१६॥

 पतीति। यद्वाहे पति सुतेति सम्बोधनम्, पत्युरीशितुर्नन्दस्य सुतेत्यर्थः ब्रजस्वामित्वान्नन्दस्य। पतिरीशिते '-त्यमरः ॥१॥ यद्वा अन्विति पृथक् अयेतिपृथक्क्रियापदम्। अनुदात्तेत्त्व- लक्षणात्मनेपदस्यानित्यत्वात्परस्मैपदम्। अन्वय अस्मत्पश्चाद् गच्छ ॥२॥ यद्वाहेभ्रातृवान्धव! भ्राता बलदेव एव यस्य तव बान्धवः, अन्ये तु गोपजातीया न तु बांधवाः एतेन न त्वं नन्दनन्दन इत्यपि सूचितम् ॥३॥ यद्वा अनतिविलङ्घ्य तव शासनमितिशेषः। तेऽन्ति समीपम्। अच्युतं सम्पूर्णं कृत्वा-