पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०५
गोपीगीतार्थकौमुदीसहिता-


इत्यादि। एकस्याटनक्रियानिषेधस्योभयत्रान्वयाद्दीपकम्। एवं विशेषणान्तराणि चोभयोरुपकारकाणि। अस्मिन्पक्षे सम्बोधन- वलाधुवत्या अपिजडे इति सम्बोधनम्। हे जडे! हे मूर्खे! हे युवतीति योज्यम् ॥ ३९ ॥ यद्वा हे युवति! त्वयि अह्नि कानन- मटन्त्यां सत्यां भवान् प्रकाशमानः कृष्णोऽटति तस्मात्त्वं नाट, सङ्गदोषोऽयमिति भावः। उभयोः सम्बोधनपक्षेपि अटति इति सप्तम्यन्तं प्रकल्प्यार्थः सम्पद्यते, किन्तु अटन्त्यामिति स्त्रीलिङ्गं भवति। एवंविधेश्लेषवशाल्लिङ्गव्यत्ययेनार्थः कविकुलक्षुण्णः। 'पुमान् स्त्रिया'-इत्येकशेषेऽपि अटतोरित्येवस्यादितिबोध्यम्। अलं पल्लवितेन ।। ४० ॥ यद्वा हे युगायेति सम्बोधनस्याय- मर्थः। युगं युग्मम्। 'युग्मन्तु युगलं युगम्' इत्यमरः। कामक्रो. धशीतोष्णसुखदुःखादिद्वन्द्वमयते एतिवा।जानातीति युगायस्त- त्सम्बोधनम्। गत्यर्थस्य ज्ञानार्थत्वात् अयगतौ पचाद्यजन्तः, इण् गतौ वावा त्रुटिरेतद्विच्छेदः।का किमपि. दुःखावहान, 'स्त्रियां मात्रात्रुटि'-रित्यमरात्त्रुटिः स्त्री। अयम्भावः। भवानेवकामक्रोधादिद्वन्दस्य दुःखसाधन- त्वं जानाति नान्यः। अतो द्वन्द्वविच्छेदः त्रुटिः, का कापि नास्ति नैवत्वया गणनीया. 'शीतोष्णसुखदुःखेषु तथा मानापमानयोः, इत्यादिना तन्निदा त्वया कृता श्रूयते। परन्तु सुखदात्र्येव भवतीति किंशब्दार्थः ॥४१॥ यद्वा युगं बानाद्यङ्गमयत एति वा गच्छति जानाति वा युगायस्तत्स- म्बुद्धिः। चतुःषष्टिविद्याकलाज्ञातुस्तवयानाद्यङ्गत्रुटिः का,नैव.