पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०४
गोपीगीता-

शेषः। यत्काननं ईषदाननं मुखं यस्य तत्काननम्, बहु- व्रीहौकादेशाप्राप्ते रर्श 'आद्यनन्तः। विपिनं हि तमःपिहितं सत् हिंस्रादियुक्त सत् ईषन् मुखं दृश्यते। मुखशब्दः प्रारम्भवाची तदपि कुटिलकुन्तलं श्रीमुखं शोभावन्मुखं दृश्यते। भवत्प्रतिबिम्बात्कुटिलकुन्तलत्वम्। रात्री तु प्रतिबिम्बितत्वबा- धादह्नित्युपादानम्। ईषदाननमपिविपिनं भवटनादेव लक्ष्मी- सम्पन्नं जातम्। अहो तस्य भाग्यम्। परन्तु त्रुटिर्युगायते इत्यादि शेषं यथायथं योज्यम् ॥३६॥ यद्वा अह्नि चेत्यन्वयः। चोs. प्यर्थः। ते त्वामित्यत्र ते अत्वामितिच्छेदः। अशब्दो निषेधपरः, अजड इति च्छेदः। तथा च दिनेऽपि काननं वनं काननं ईषदाननं भयानकमुखं भवतीतिशेषः। भवांस्तदटति, किमपि न विचारयति, विचारशून्यं जडं त्वामपश्यतां त्रुटिः अ युगायते। न युगवदाचरति. एतत्पक्षे जडे इति च्छेदः, विचारशून्ये त्वयी त्यर्थः। कुटिलकुन्तलं श्रीमुखमुदीक्षतां जनानां दृशां पक्ष्मकृद् ब्रह्मदेवोऽजडो युक्तमेवाकरोत्. यतस्त्वामपश्यतां त्रुटिर्नैव युगा- यते। अतो दृशाम्पक्ष्मकरणं युक्तमेवेति भावः ॥ ३७॥ यद्वा अस्तीति सप्तम्यन्तमेवास्तु, जडे इत्यपि तथैव भवानिति पूर्ववत्सम्बोधनमस्तु ।तथा च हे भवान् जडे त्वयिकाननमह्नि अटति सति अन्यत् पूर्ववत्॥ ३८ ॥ यद्वा भातीति भवान् सुन्दरस्त्वं काननमह्नि अन अट कुटिलकु- न्तलं श्रीमुखं च ते काननं स्यात्। एवं हे ति! हे युवति! अह्नि काननं वनं त्वं न अट। कुटिल कुन्तलं श्रीमुखं च ते काननं कुत्सिताननं स्यात्। एकोऽयन्दोषः। अपरश्च त्रुटिर्युगायते