दूरापास्ता। अस्मद्विधा अपि गृहकृत्यं त्यक्त्वाकाननं नैवाटन्ति, यदर्थं भवान् काननमटति तद्वयथ मेवेति। परन्तु त्वामपश्यतामस्माकं त्रुटिर्युगायते। किञ्च ते तुभ्यं त्रुटिर्युगायते, अयम्भावः। भवान् अह्निकाननमटति अस्माविहायेतिशेषः। परन्तु वयं भवतः स्नेहास्पदम्। एता. दृशोऽस्मान्विहाय काननाटने तुभ्यमपिक्षणो युगायते नास्माक मेव; एतेन परस्परानुरागो व्यज्यते ॥ २१ ॥ यद्वा कात्रुटिर्युगायते इति प्रश्नकाकुः, न कापीत्यर्थः। अयम्भावः। अस्माकम्प्रतित्रुटिरपियगवद्भवतु इत्यर्थ भवानह्निकाननमटति कात्रुटिर्युगायते । त्वामपश्यतां न का पीति ईर्ष्योक्तिः। अस्मिन्पक्षे तवाननं त्वाञ्चापश्यतामिति योज्यम्। का इति पृथक् आननमिति -पृथक ।। २२॥ यद्वा अस्मिम्पक्षे काननमिति काकृक्तिरस्तु तथा च त्वामपश्यतामस्माकं कुटिलकुन्तलं आमुखं च काननं ईषदाननं दृश्यते किमपि तु न, यदित्रुटिर्युगाय स्यात्तदा तु अस्माकमाननमपि काननं स्यादित्थन्तु नैव दृश्यते । परन्तु ते तव कुटिलकुन्तलं श्रीमुखं च काननमीषदाननं स्यात्। अस्मानपश्यतस्तवैव त्रुटिर्युगायस्यात्, यतस्तवालनंतादृशमपि ईषदाननमित्याशयः। अस्मिन्पक्षे युगायेति पृथक् ते इति पृथक् युगायेति तादर्थ्ये चतुर्थी ॥ २३ ॥ यद्वा त्वा इति पृथक आमेति पृथक् पश्येति पृथक् तामिति पथक्। आसमन्ताल्लक्ष्मीर्यस्य स आमस्तत्सम्बुद्धावाम हे परिपूर्णसम्पन्नन्दसूनो ! हे सुन्दर! तर वा त्वा त्वां तां तव प्रयसी
पृष्ठम्:गोपीगीता (गोपीगीताकौमुदीटीकासहिता).djvu/१०२
दिखावट