पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६५
गोपालसहस्रनामस्तोत्रम्


 क्षणावनिः सार्वभौमो वैकुण्ठो भक्तवत्सलः ।
 विष्णुर्दामोदरः कृष्णो माधवो मधुरापतिः ॥ ९० ॥

 क्षणावनि: - उत्सवभूमिः, उत्सवपात्रभूतः । सार्वभौमः सर्वभूमेरीश्वरः । वैकुण्ठ:--- कुण्ठा गतेः प्रतिघातः । 'कुठि गतिप्रतिघाते’।। गतिप्रतिघातश्चात्र संश्लेषविघातः । स च विगतो येषां ते विकुण्ठाः तेषामयं वैकुण्ठः । जगदारम्भे विशिष्टानि भूतानि परस्परं संश्लेषयतीत्यर्थः ।  'मया संश्लेषिता भूमिरद्भिर्व्योम च वायुना ।
 वायुश्च तेजसा सार्धं वैकुण्ठत्वं ततो मम ॥'

 इति भारते शान्तिपर्वणि (३४२-८०) श्रीरामेऽपि प्रसिद्धोऽयं महिमा यत् विश्लेषस्वभाववस्तुना संश्लेषणं नाम

 'राममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ।’

इनि। भक्तवत्सलः --- भक्तेषु प्रीतिमान् । विष्णुः --- सर्वव्यापी । दामोदरः-- दाम उदरे यस्य सः यशोदया रज्ज्वा उदरे बद्धः श्रीकृष्ण इति भागवतादौ प्रसिद्धम् । अनेन आश्रितपरतन्त्रत्वं सूच्यते। कृष्णः --- वसु. देवसूनुः । माधवः -- लक्ष्मीपतिः। मधुरापतिः- मधुरानगरस्य स्वामी ।


 'एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः ।
 नागपर्यङ्कमुत्सृज्य ह्यागतो मथुरां पुरीम् ॥' ९० ॥

<poem>

 देवकीगर्भसम्भूतो यशोदावत्सलो हरिः ।
 शिवः सङ्कर्षणः शम्भुर्भूतनाथो दिवस्पतिः ॥ ९१ ॥

 देवकीगर्भसम्भूतः --- देवक्याः गर्भे प्रादुर्भूतः । यशोदावत्सलः यशोदायाः प्रियः । हरिः-पापहारकः विष्णुः। शिवः-- मङ्गलकरः ।



 90 a क. क्षणावर्ति
 90 d ख.ङ मधुरापतिः