पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
गोपालसहस्रनामस्तोत्रम्

 'ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ।  भावच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥'

(वि.पु. 6-5-79)

इति विष्णुपुराणे । सर्वभूतेशः --- सर्वेषां प्राणिनामीश्वरः । गोपाल:- गवां रक्षकः । सर्वपालक:--- सर्वेषां रक्षकः। अनन्तः -- देशतः कालतः वस्तुतश्च परिच्छेदरहितः। 'सत्य ज्ञानमनन्तं ब्रह्म' (तै.आ. 14) इति श्रुतेः । 'नास्त्यन्तो विस्तरस्य मे' (गी. 10-19) इति गीतायाम् । निर्गुणः सत्त्वादिगुणत्रयरहितः। जरादिहेयगुणरहित इति वा। 'सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणा: ' (वि पु.1 -9-14) 'विना हेर्यैर्गुणादिभिः' (वि. पु. 6-5-79) इत्यादिपुराणवचनान्यत्रानुसन्धेयानि। नित्यः ---- उत्पत्ति- विनाशरहितः । 'नित्यो नित्यानां चेतनश्चेतनानाम् ' (श्वे.6-13,कठ.5-13) इति श्रुतिः । निर्विकल्पः -- देवमनुष्यादिभेदरहितः । निरञ्जनः- दोषलेपरहितः ॥ ८८ ॥


 निराधारो निराकार: निराभासो निराश्रयः ।
 पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ ८९ ॥

 निराधार:- आधाररहितः। भूतभृन्न च भूतस्थः' (गी. 9-5) इति गीतायाम् । निराकार:आकाररहितः । निराभासः -- आभासो भ्रमः दोषो वा तद्रहितः। निराश्रयः --- आश्रयरहितः । पुरुष:--- पुरु बहु सनोति ददातीति पुरुषः । अस्य शब्दस्य बहूनि व्युपत्त्यन्तराण्यपि सन्ति, यण पुरुष भूरिषु उत्कर्षशालिषु सत्त्वेषु सीदतीति वा, पुरूणि भुवनानि संहारसमये स्यति नाशयति इति वा, पूर्णत्वात् पूरणात् सदनाद्वा पुरुष इत्यादि । प्रणवातीतः-प्रणवापेक्षयापि उत्कृष्टः । प्रणवं अतिशयेन इत: वाचकत्वेन प्राप्त इति वा । मुकन्दः-- मुक्तिं ददातीति मुकुन्दः । पृषोदरादित्वात् साधुः । परमेश्वर:- उत्कृष्टः ईश्वरः । पराया उत्कृष्टायाः माया: लक्ष्म्या: ईश्वरः पतिरिति वा ।। ८९ ॥