पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
गोपालसहस्रनामस्तोत्रम्


संहारवृत्तान्तो द्रष्टव्यः । धरात्मजः- पृथिवीसुतः, भूलोकेऽवतीर्ण इति वा अङ्गारकस्वरूप इति धराया: यशोदायाः आत्मजः इति वार्थः । वंशीवटविहारी--- वंशीवटवृक्षप्रचुरे प्रदेशे विहरणशीलः । गोवर्धनवनाश्रयः --- गोवर्धनागिरिप्रान्तस्यवनमेवाश्रयो यस्य सः । गोपालवेषस्य भगवतः सौशील्यादिस्वभावप्रस्त्यापकान्येतानि नामानि ॥ ३८ ॥


 तथा तालवनोद्देशी भाण्डीरवनशङ्खहा ।
 तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ ३९ ॥

 तालवनोद्देशी---तालवृक्षप्रचुरवनविहारी । तालफलानि गोपबालान् भोजयितुं तालवनस्योद्देशः सङ्केतोऽस्यातीति वा । भाण्डीरवनशङ्खहा --- भाण्डीराख्ये वने विहरतः शङ्खाख्यस्यासुरस्य हन्ता ! भण्डीरो वटवृक्षः तत्प्रचुरं वनं वृन्दावनस्थं भाण्डीरवनम् । भाण्डीरवनशङ्कहा इति पाठे भाण्डीरवनं शङ्कते बिभेति जनो यस्मात् स भाण्डीरवनशङ्कः कालियाख्यः सर्पः तं हन्ति इति ततो निस्सारयतीति भाण्डीरवनशङ्कहा । तृणावर्तकृपाकारी तृणावर्तनामकस्य कंसप्रेरितस्यासुरस्य संहरणेन मोक्षप्रदानेन कृपां कृतवान् । भागवते दशमस्कन्धे सप्तमाध्याये। वृषभानुसुतापतिः- वृषभानोस्सुता राधा तस्याः पतिः । वृषभानुरिति राधापितुर्नाम ।। ३९ ।।


 राधाप्राणसमो राधावदनाब्जमधुव्रतः ।
 गोपीरञ्जनदैवज्ञः लीलाकमलपूजितः ॥ ४० ॥

 राधाप्राणसमः -- राधायाः प्राणतुल्यः क्षणमपि कृष्णविरहं न राधा सहत इति भावः । राधावदनाब्जमधुव्रतः -- राधायाः वदनं मुखमेवाब्जं पद्मं तत्र मधुव्रतः तत्स्थमध्वास्वादशीलॊ भ्रमर इत्यर्थः । गोपीरञ्जन-



 39 b ङ. भाण्डीरवनशङ्कहा
 39 c ख. घ. तृणावर्तकथाकारी
 40 b व. ङ. बदनाब्जमधूकरः
 40 d ङ .लांकाकमल