पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
गोपालसहस्रनामस्तोत्रम्


दैवज्ञः- गोपीनां प्रीणनविधिज्ञः । येन येन प्रकारेण गोपिनां प्रीणनं कर्तव्यं तं तं प्रकारं जानातीत्यर्थः । अथवा गोपीनां रञ्जने दैवज्ञः ज्यौतिषिकः त्रिकालोचिताशेषशृङ्गारदर्शी । लीलाकमलपूजितः - लीलया अनासयेन कमलैः पद्मैः पूजितः । 'पत्रं पुष्पं फलं तोयं यो मे भक्तया प्रयच्छति' (गी. 9-26) इत्युक्तरीत्या यागादिवदायासं विना पुष्पमात्रसमर्पणेनापि पूजार्ह इत्यर्थः । अथ वा लीलया लीलाप्रधानया राधया कमलैः पूजितः ।। १० ।।


 क्रीडाकमलसन्दोहः गोपिकाप्रीतिरञ्जनः ।
 रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ ४१॥

क्रीडाकमलसन्दोह:-क्रीडार्थानां कमलानां सन्दोहः समूहो यस्य सः । गोपिकाप्रीतिरञ्जनः – गोपिकानां गोपस्त्रीणां या प्रीतिः सुखं तत्र रञ्जनम् रागो यस्य सः । गोपिकानां सुखकर इति यावत्। रञ्जकः--- भक्तानां प्रीतिकरः। रञ्जनः -- भक्तानुरागपात्रभूतः । रङ्गः .. नृत्यस्थलभूतः । रज्यत्यस्मिन् भक्तजन इति वा । रञ्जेरधिकरणे घञ् । रङ्गी नर्तकः । रङ्गमहीरुहः -- नृत्यस्थलवृक्षः । रङ्गभूमिं नर्तनार्थं आरोहतीति वा। रङ्गमह्यां मल्लरङ्गे रुहः प्रादुर्भावोऽस्यास्तीति वा ॥ ४१ ॥


कामः कामारिभक्तोऽयं पुराणपुरुषः कविः ।
नारदो देवलो भीमो बालो बालमुखाम्बुजः ॥ ४२ ॥

 कामः- शीलौदार्यदयादिभिरात्मगुणैः नितान्तं कमनीयः। कामारिभक्त:--्मन्मथशत्रो रुद्रस्य भक्तः । कामारी रुद्रो भक्तो यस्येति वा । कामारीणां भक्त इति वा। पुराणपुरुषः --- अनादिपुरुषः । कविः क्रान्तदर्शी अतीन्द्रियार्थसाक्षात्कारसमर्थः । सर्वद्रष्टा वा । 'नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ.--23) इति श्रुतेः । नारदः - नारदमहर्षिस्वरूपी । नरस्य सम्बन्धि अज्ञानं नारं तत् द्यति खण्डयतीति वा नारदः अज्ञाननाशकः 'अहमज्ञानजं तमः । नाशयाम्यात्मभावस्थः' (गी. 10-11) इति भगवद्गीतायाम् नारं चराचरात्मकं विश्वं दयते पालयतीति वा नारदः। देवलः - देवल-