पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८
गोपालसहस्रनामस्तोत्रम्


तान् स्वस्मात् वरं ग्राहयतीति तादृशः । भक्ताभीष्टपद इत्यर्थः । शृगालहा-शृगालनामकस्यासुरस्य हन्ता । शृगालं मिथ्यावासुदेवं हतवानिति शृगालहा इति वा । दमघोषोपदेष्टा-- दमघोषः शिशुपालस्य पिता, तस्योपदेष्टा । दमस्य इन्द्रियनिग्रहस्य यो घोषः श्रुतिरूपः तस्योपदेष्टा इति वा । रथग्राही-- रामावतारे इन्द्रेण मातलिद्वारा प्रेषितं रथं गृह्णातीति तादृशः ।


 'सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते ।
 दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण ॥
 इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् ।
 इत्युक्तस्संपरिक्रम्य रथं समभिवाद्य च ॥
 ’आरुरोह तदा रामो लोकान् लक्ष्म्या विराजयन्’ ॥

(रा.6-10-15)



अर्जुनरथं सारथिः सन् गृह्णातीति वा । सुदर्शनः -- शोभनं दर्शनं यस्य
सः। 'सोमवत्प्रियदर्शनः' (रा. 1-18) इति रामायणे । शोभनमित्यम्य
आनन्दजनकमित्यर्थः, यस्य दर्शनमात्रेणानन्दो जायते स सुदर्शनः। अथ वा
दर्शनशब्दः नेत्रपरः। शुभे पद्मपत्रवदायते नेत्रे यस्य स
सुदर्शनः । सुखेन दृश्यते भक्तैरिति वा सुदर्शनः ।। २४ ॥
<poem>

 वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।
 द्वारकावासतत्त्वज्ञः हुताशनवरप्रदः ॥ २५ ॥

 वीरपत्नीयशस्त्राता --- वीरपत्न्याः द्रौपद्याः यत् यशः तस्य रक्षकः । विप्रपत्नीयशस्त्रातेत्यपि पाठान्तरम् । जराव्याधिविघातकः .. जरायाः व्याघेश्च विनाशकः । ज्वरव्याधिविनाशक: इति पाठान्तरम् ।

 'आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।
 सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥

 जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥