पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
गोपालसहस्रनामस्तोत्रम्


इत्यादिकमिह भाव्यम् । द्वारकावासतत्त्वज्ञः द्वारकायां वासस्य तत्त्वं याथात्म्यं जानातीति तादृशः । द्वारकानिलय इत्यर्थः । हुताशनवरप्रदा- हुताशनस्याग्नेः वरं प्रददातीति तादृशः । अग्नेर्दाहशक्तिं प्रददातीत्यर्थः ।।२५॥


 यमुनावेगसंहारी नीलाम्बरधरः प्रभुः ।
 विभुः शरासनो धन्वी गणेशो गणनायकः ॥ २६ ॥

यमुनावेगसंहारी .- यमुनानद्याः वेगं संहरतीति तादृशः। वसुदेवो यदा कृष्णं शिरसि गृहीत्वा ययौ तदा यमुना वेगमुपसंहृत्य जानुमात्रपरिमिता प्रवहति स्मेति प्रसिद्धम् । नीलाम्बरं धरतीति नीलाम्बरधरःप्रभुः -- समर्थः । मनुष्यसधर्मतया अवतरन्नपि भोगापवर्गप्रदानसमर्थ इत्यर्थः । विभुः सर्वगतः देशपरिच्छेदरहितः। शरासनः --- शराः शत्रून् प्रति अस्यन्ते क्षिप्यन्तेऽनेनेति शरासनः । धन्वी - शार्ङ्गाख्यं धनुरस्यास्तीति धन्वी । गणेश: ... गणानां परिवाराणामनन्तगरुडादीनामीशः नियन्ता। गणनायकः विघ्नसमूहनिवर्तकः । गोपीगणानां नियन्ता गोपीगणानां नेतेति वा अर्थः ॥ २६॥


 लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशनः ।
 वामनो वामनीभूतोऽवामनो वामनारुहः ॥ २७ ॥

 लक्ष्मणः --- लक्ष्मीसम्पन्न:, लक्ष्मणस्वरूपो वा। लक्षणः- सर्वं लक्षयति पश्यतीति । करचरणादिषु शुभचिह्नमस्यास्तीति वा । लक्ष्यः -- योगिदृश्यः । जीवरूपस्य शरस्य वेधस्थानभूत इति वा । 'प्रणवो धनुः शरो


 26 a. ग. वेगसंघारी  27 a ग. ङ. लक्ष्मणो लक्ष्मणो लक्षो  27 b क. विनाशकः  27 d क. नामनारूढः   ख. वमनो वमनारूढः   घ. बलिजिद्विक्रमत्रयः for वामनो वामनारुहः   ग. पुस्तके एतावच्छ्लोकपर्यन्तमेवोपलभ्यते ।