पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गोपालसहस्रनामस्तोत्रम्



 संसारसागरोत्तारकरणाय नृणां सदा ।
 श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ ९॥

 तत्-पुरुषार्थप्रदायक गोपालस्तोत्रम्, ते - तुभ्यम् अहं संप्रवक्ष्यामि-सम्यक् यथा ते बोधो भवेत् तथा वक्ष्यामि । अतः हे प्रिये ! अवहिता अवधानयुक्ता श्रृणुष्व । योऽसौ- प्रसिद्धः, निरञ्जन:- निर्दोषः चित्स्वरूपी जनार्दनः -- जनानां प्रतिकूलजनानां अर्दयिता, जनान् अर्दयतीति व्युत्पत्तेः। अर्दयिता इत्यस्य गमयिता नरकादिगमयिता इत्यर्थः । अर्दधातोः नन्द्यादित्वात् ल्युः कर्तरि । अथ वा अनुकूलजनैः स्वाभिलषितमर्धमानः याच्यमान इत्यर्थः। 'अर्द गतौ याच्ञायां च ' इति धातुः । जनार्दनशब्दो विष्णुपर्यायः। नृणां - मनुष्याणाम् , संसारसागरोत्तारकरणाय- संसाराख्यसमुद्रादुत्तारणाय । श्रीरङ्गादिकरूपेण --- श्रीरङ्गादिक्षेत्ररूपेण, विद्यमानम् त्रैलोक्यं-लोकत्रयम् व्याप्य वर्तते । अथ वा त्रैलोक्यं व्याप्य स्थितः जनार्दनः श्रीरङ्गाद्यधिष्ठातृरङ्गनाथादिरूपेण वर्तते। श्रीगङ्गाद्रवरूपेणेति पाठे, श्रीगङ्गादिप्रवाहरूपेण सर्वोत्तारणाय भगवान् व्याप्तोऽस्तीत्यर्थः ।। ८-९ ॥


 ततो लोका महामूढा विष्णुभक्तिविवर्जिताः।
 निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥ १० ॥

ततः - तत्रापि लोकाः - जनाः, महामूढाः --- अत्यन्ताविवेकिनः, विष्णुभक्तिविवर्जिताः-विष्णौ भक्तिरहिताः, निश्चयं- भगवान् विष्णुः स्तोतव्य इति निर्णयम् , नाधिगच्छन्ति - न प्राप्नुवन्ति । अतः पुनः-


9ab.क. सागरात्तीर्णं कारणाय.
9b. ख. कारणाय सदा नृणाम्.
9c. क. श्रीगङ्गाद्रवरूपेण,
 ङ्,
 ग. श्रीगङ्गादिव्यरूपेण.
10 a. ङ. ततो लोका महाभरा:.
10 c. ङ. नाधिगच्छेति.