पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
गोपाससहलनामस्तोत्रम्


पुनरपि, नारायणः - सर्वव्यापी, हरिः-स्वाश्रितानां पापं हरतीति तादृशः विष्णुः ॥ १० ॥


 निरञ्जनो निराकारो भक्तानां प्रीतिकामदः ।
 वृन्दावनविहाराय गोपालं रूपमुद्वहन् ॥११॥

 निरञ्जन:-- अविद्यादिदोषसम्बन्धरहितः । निराकार:-आत्मस्वरूपे आकाररहितः, प्राकृताकाररहित इति वा। भक्तानां- प्रीत्या सेवमानानाम् , प्रीतिकामदः प्रीत्या अभीष्टफलप्रदस्सन् , वृन्दावनविहाराय --- वृन्दावनसंज्ञके मधुरासमीपस्थे वनविशेषे विहाराय सञ्चाराय, गोपालं- गवां पालकम् , रूपं-दिव्यमङ्गलविग्रहम् , उद्वहन् - धारयन् ,उद्गिरन्निति पाठे प्रकटीकुर्वन् । आत्मस्वरूपे आकारशून्यत्वात् भजनायोग्यत्वमनुसन्धाय भक्ताभीष्टफलप्रदानार्थं गोपालकृष्णरूपं स्वीकरोतीति भावः । 'श्रीमद्बृन्दावनं नाम वनं त्रिदशपूजितम् । इत्यादिपुराणवचनात् वृन्दावनमिति वनविशेषस्य संज्ञा || ११॥


 मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
 अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ १२ ॥

<poem>

 श्रीकृष्णचन्द्रो भगवान् नन्दगोपवरोद्यतः ।
 धरणीरूपिणीमातृयशोदानन्ददायकः ॥ १३ ॥

मुरलीसंज्ञकः यः वादनाविशेषः तद्धरणशीलः। राधायै- राधायाः प्रीतिं सन्तोषम् , आवहन् - जनयन् राध्यते आराध्यते श्रीकृष्णप्राप्त्यर्थं सर्वै-


11 b. ङ. प्रीतिकारक..
11 d. क. ङ, रूपमुद्गिरन्.
11 d. ग. गोपालं रूपमुत्तमम्.
12 b. ग. राधायाः प्रीतिमावहन्.
13 d. क. माता यशोदा नन्दगेहके.
 ख. माता.
13 d. ख. ग. यशोदानन्ददायिनी.