पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गोपालसहस्रनामस्तोत्रम्

अस्य प्रश्नस्य समाधानम् ---- श्रीमहादेव "उवाच---


 धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
 रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ ४ ॥

हे प्राणवल्लमे- प्राणेश्वरि, प्राणवत् प्रिये इति वा । पार्वति त्वं धन्या-धनमर्हतीति धन्या परमपुरुषार्थलक्षणमोक्षयोग्या, असि --- भवसि । एवं कृतपुण्या-कृतं पुण्यं सत्कर्म यया सा। असि -- भवसि । यत् -- यस्मात् कारणात् हे वरानने ! उत्कृष्टवदने । भगवन्माहात्म्यश्रवणोत्सुक्यसञ्जातशोभातिशययुक्तवदने इति वा । रहस्यातिरहस्य ---- रहस्येषु गोपनीयेषु अतिरहस्यं अत्यन्तगोपनीयं परिपृच्छसि । यत् परमपुरुषार्थसाधनं तदत्यन्तगोपनीयं सुसूक्ष्मं वस्तु । तद्विषयकजिज्ञासाया आविष्करणात् धन्यत्वं कृतपुण्यत्वं च पार्वत्या इति भावः ॥ ४ ॥


 स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
 गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ ५ ॥

 स्त्रीस्वभावात् -- स्त्रीणां य इदं प्रष्टव्यं न इदं प्रष्टव्यमिति विवेकराहित्यरूपः स्वभावः तस्मात् त्वं प्रयत्नतः गोपनीयं वस्तु हे महादेवि! महामोदयुक्ते, मोदार्थोऽत्र दिव्धातुः । परिपृच्छसि । प्रयत्नत इत्यस्य गोपनीयमित्यत्र वा परिपृच्छसीत्यत्र वा अन्वयः । त्रिः गोपनीयशब्दप्रयोगः गोपनीयत्वस्य वास्तवत्वसूचकः ।


 'सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमुच्यते ।
 वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम् ।।
इतिवत् ।

  • क. "उवाच'नास्ति.

4 b. ग. ङ. पार्वती.