पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गोपालसहस्रनामस्तोत्रम्


लोकैः - लोकेषु विद्यमानैः श्रेयस्कामैः सर्वैर्मानवैः त्वमेव पूज्यसे- अर्च्यसे । ब्रह्मविष्णुप्रमुखैः सुरैः देवैः आदिपदग्राह्यैः असुरैः बाणादिभिश्च त्वमेव पूज्यसे । तथा च त्वं सर्वेषां नाथः । एवं सति हे महेश्वर । महांश्वासौ ईश्वरश्च महेश्वरः तस्य सम्बुद्धिः । महेश्वरशब्दः परमशिवे योगरूढ इत्याहुः । देवेश देवानामीशः अधिपतिः तस्य सम्बुद्धिः । त्वं कस्य स्तोत्रं- कस्य गुणकीर्तनरूपं वाक्यजातम् , नित्यम् – अनुदिनम् , पठसि कस्यचित् गुणकीर्तनरूपा स्तुतिर्हि स्तुत्यस्य प्रसादद्वारा किंचित्फलमुद्दिश्य भवति । यस्य भवतः प्रसादं काङ्क्षन्तः भवन्तं स्तुवन्ति सर्वे देवादयः तेन भवता स्तुत्या प्रसादनीयः कोऽन्य उत्कृष्टो वर्तते? अतो भवता प्रतिदिनं क्रियमाणं कंचिदुद्दिश्य स्तोत्रपठनं व्यर्थमित्याशयः ॥ २ ॥  तदेवाह

 आश्चर्यमिदमाख्यातं जायते मयि शङ्कर ।  तत्प्राणेश महाप्राज्ञ संशयं छिन्धि मे प्रभो ॥ ३ ॥

अत्यन्तमिति पाठे अत्यन्तमाश्चर्यमित्यर्थः । इदम् –सर्वलोकनाथेन त्वया स्तोत्रपठनरूपम् , आख्यानम् ---आख्यानं वृत्तमित्यर्थः । हे शङ्कर! मयि- मां प्रति, ममेति पाठेऽप्ययमेवार्थः । आश्चर्यं जायते भवति। तत्- तस्मात् । प्राणेश-मत्प्राणनाथ! त्वत्सन्निध्यधीनो मम प्राण इति भावः । महाप्राज्ञ! महती प्रज्ञा यम्य सः। फलितार्थोऽयम् । प्रकर्षेण जानातीति प्रज्ञः, प्रज्ञ एव प्राज्ञः, महांश्चासौ प्राज्ञश्च महापाज्ञः। यतस्त्वं सर्वसंशयनिराकरणक्षमप्रकृष्टज्ञानवान् , अतः हे प्रभो मम संशयं छिन्धि --- निवर्तय। स्तोत्रपठनमनुचितमिति मदीयप्रश्नस्य समाधानं ब्रूहीत्यर्थः ॥ ३ ॥


3 a. ख. आश्चर्यमिदमत्यन्तं.
 ङ, आश्चर्यमिदमाख्यानं.
3 b. ख, जायते मम.
3 d. ख. छिन्धि शङ्कर,