पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ४ कन्दर्पज्वरसंज्वरातुंरतनोराश्चर्यमस्याश्चिरं चेतश्चन्द न चन्द्रमः कमलिनीचिन्तासु संताम्यति । किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ११ क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिनया यया ते । गीतगोविन्दकाव्यम् प्युपेन्द्रवज्रा ॥ १० ॥ ईडशीमवस्था प्राप्तापि त्वत्सङ्गमाकाङ्क्षयैव प्राणितीत्याह- कन्दर्पेति । हे माधव, अस्याश्चेतश्चिरं चन्दनचन्द्रमः कमलिनीचिन्तासु यत्संताम्यति तदाश्चर्यम् । किविशिष्टायाः । कन्दर्पज्वरसंज्वराकुलत नोर्म दनसंतापाकुलशरीरायाः । तापे सति शीतलवस्तुषु स्पृहा नास्तीत्याश्चर्यम् । किंतु आश्चर्यान्तरमपि । क्लान्तिवशेन क्षीणा। रहस्येकान्ते स्थिता त्वामेवैकं प्रियं शीतलतनुं कथमपि ध्यायन्ती क्षणं क्षण- मात्रं प्राणिति जीवति । अत्र शीतलेषु द्वेषः । शीतलादपि जीवतीति विरोधालंकारः । अद्भुतश्च रसः । शार्दूलविक्रीडितं वृत्तम् ॥ ११ ॥ इदानीं लदागमनहेतुं मनसि स्थिरीकृत्य प्राणितीत्याह–क्षणेति । हे माधव, यया राधया पुरा ते विरद्दः क्षणमपि न सेहे न सोढः । किंभूतया । नयननिमीलनखिन्नया नयननिमीलनेनापि खिन्ना सा तया | भवदर्श - नान्तरे निमिषेऽपि या दुःखं प्राप्नोति । असौ सांप्रतं चिरविरहेऽपि रसालशाखां चूत- शाखां विलोक्य, कथं श्वसिति प्राणिति तन्न जाने किंविधां रसालशाखाम्। पुष्पितामां पुष्पिताग्रभागाम् । अत्र पुष्पितया चूतशाखया वसन्तो लक्ष्यते । वसन्ते हिं बज्रापेक्षयापि दारुणत्वमिति भावः । उपेन्द्रवज्रा छन्दः ॥ १० ॥ ननु शीतोपचारेरेव तनुज्वरशान्तिर्भविष्यतीति किं शपत्यत आह - - कंदर्पेति । अहो अस्याश्चेतश्चित्तं चन्दन- चन्द्रमः कमलिनीचिन्तासु चन्दनचन्द्रपद्मिनीवार्तास्वपि सखीभिः क्रियमाणासु संता- म्यति ग्लानि प्राप्नोति। कीदृश्याः कन्दर्पज्वरेण यः संज्वर: संतापस्तेनातुरतनो रुग्णदेहायाः । विरोधोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । नन्वेतादृशे संतापे कथं जीवतीत्यत आइ-किंत्विति । हे इन, प्रभो त्वामेव प्रियं शीतलतनुं ध्यायन्ती सती क्षणं प्रतिजीवति । कीदृशी क्षणं रहसि स्थिता । पुनः कीदृशी उत्क्रान्तिवशा उत्क्रान्तेः प्राणोत्क्रमणस्य वशा आयत्ता । तत्र हेतुगर्भविशेषणमाह । क्षीणा कार्यादुर्बला तथा से शीतलं चानस्पर्श ध्यायन्ती संप्रति जीवतीति त्वया झटिति गन्तव्यं, पुनस्तस्या दर्श- नमपि ते दुर्लभं भवतीति भावः ॥ ११ ॥ ननु इयन्तं कालं यथा जीवति तथाग्रेऽपि जीवतीत्यत आह क्षणमिति । अनया राधया ते विरहः पुरा त्वत्सहृदशायां क्षणमपि न सेद्दे न सोढः । कीदृश्या | नयनयोनिमीलनं निमेषस्तेन खिन्नया दुःखितया । किमिति धात्रा नयनयोनिमेषः सृष्टः । यतः क्षणोऽपि जगदीश्वरमुखारविन्ददर्शने प्रत्यू हो भवतीति खेदयुक्तयेति भावः । असौ राधा विरहेण कथं श्वसिति । जीवतीत्यर्थः किं २ 'किंतत्क्रान्तिवशेन' इति पाठः 1 '१ 'ज्वराकुलतनोः' इति पाठः । Dilized by 1 Google