पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसिकप्रिया – रसमञ्जर्याख्यटीकाद्वयोपेतम् श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् || १२ || दृष्टिव्याकुलगोकुलावनरसादुनृत्य गोवर्धन बिभ्रद्धल्लववल्लभाभिरधिकानन्दाचिरं दर्पेणैव तदर्पिताघर तटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विषः ॥ १३॥ इति श्रीगीतगोविन्दे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः ॥ ४ ॥ चुम्बितः । विरहिणो न जीवन्तीत्यत्राकूतम् । सा कथं श्वसितीति चिरविरहेऽपि रसाल- शाखां विलोक्य | रसालो रससमूहो भवान् । तस्य शाखा अन्तिकं समीपं तां विलो- क्य । किंविधां शाखाम् । पुष्पिताप्रां पुष्पितं संजातपुष्पमप्रमुत्तरकालो यस्याः सा ताम् | तवान्तिकं लप्स्य इत्यभिकाया श्वसिति । अथवा पुष्पितामां चूतशाखां दृष्ट्वा श्वसितीति युकार्थः । एवंविधां चूतशांखां दृष्ट्वा स्मरशरजर्जरितशरीर: सोऽ- वश्यं मामेष्यतीति ॥ वृत्तमपि पुष्पितामा ॥ १२ ॥ इदानीं मङ्गलान्तानि च शास्त्राणि प्रथन्त इति न्यायमाचरन्कविराशिषमाह- वृष्टीति । कंसद्विषः कृष्णस्य बाहुर्भवतां श्रोतॄणां श्रेयांति तनोतु । किं कुर्वन् । उद्धृत्य गोवर्धनं गिरिं बिभ्रत् । कस्मात् । दृष्टिव्याकुलगोकुलावनरसात् । वृष्ट्या व्याकुलं यगोकुलं तस्य यदवनं पालनं तत्र रसो रागो वीर्य वा तस्मात् । पुनः किंभूतो बाहुः । बलववल्लभाभिर्गोपाङ्गनाभिर- धिकानन्दाधिरं चुम्बितः । पुनः किंभूतो बाहुः । तदर्पिताधरतटीसिन्दूरमुद्राङ्कितः । तामिथुम्बनार्थमर्पिता या अधरतटी तस्याः सिन्दूरमुद्रयेव शोणितत्वेनाङ्कितः । उत्प्रेक्षते गोवर्धनोद्धरणलक्षणजातगर्वेणेव शोणितः । किंविधस्य कंसद्विषः । गोपतनोः गोपस्य तनुरिव तनुर्यस्य सः । गोपवेषस्येत्यर्थः । अत्राद्भुतो रसः । उत्प्रेक्षोपमे अलं- कृती | शार्दूलविक्रीडितं वृत्तम् ॥ १३ ॥ “ मालवश्रीः स्मृतो रागस्तालो निःसारु- संज्ञकः । वाग्गेयकारनामाङ्कपदतस्तेनसन्ततिः ॥ ततः पाढाः पदानि स्युः पञ्चषाणि रसोऽत्र यः । शृङ्गारो वासुदेवस्य क्रीडनं रासकादिभिः ॥ छन्दोऽपि रासको ज्ञेयं खेच्छया वा कृतं भवेत् । स्निग्धमधुसूदनोऽयं रासावलयनामकः । प्रबन्धः पृथिवी- मर्त्रा प्रबद्धः प्रीतये हरेः ॥ इति स्निग्धमधुसूदनरासावलयनामा नवमः प्रबन्धः । ” इत्ययं नवमप्रबन्धस्य टीकांशो ज्ञेयः || एकस्तावदनूनधन्विविषय स्वीकारलक्ष्योऽपरः स्फूर्जद्गुर्जरशूरनायकजयप्रोद्दामिताडम्बरः । कृत्या | पुष्पिताग्रां पुष्पितोऽग्रभागो यस्यास्तादृशीम् । रसालशाखां चूतशाखां विलो- क्य दृष्ट्वा । श्वसितीत्यत्र 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । छन्दोऽपि चेदं पुष्पितामानामकमिति ध्वनितम् । तलक्षणं वृत्तरताकरे – 'अयुजि नयुगरेफतो यकारो १ 'वनवशात्' इति पाठः । सर्गः ४] Dgilized by Google ७५