पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः ४ गीतगोविन्दकाव्यम् सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति ध्यायत्युद्धमति ममीलति पतत्युद्याति मूर्च्छत्यपि | एतावत्यतनुज्वरे वरतनुजवेन किं ते रसा- तस्ववैद्य प्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः ॥ ९ ॥ सर्वत्रोपमालंकारः ॥ ८ ॥ इदानीं भक्त्याख्याभावितमरणशंसनमिषेण तन्मनः प्ररो- चयति-सेति । हे स्ववैद्यप्रतिम अश्विनीकुमारसदृशरूप । एतावत्यतनुज्वरे एतावती मवस्थां प्राप्तवत्यतनुज्वरे । पक्षे अंतनुज्वरे महति ज्वरे सति यदि प्रसीदसि ततः सा वरतनुः तव रसात् शृङ्गार्तिक न जीवेत् । अपितु जीवेदेव । अन्यथा चेन्न प्रसीदसि तथा अन्तक एवान्तकः मरणं नासि, मरणहेतुत्वात्त्वमेव मरणमिति । अथवा । हे स्वर्वैद्यप्रतिम अश्विनी कुमारतुल्य वैद्य, यदि प्रसीदसि ततस्ते रसात्यारदादिनिष्पन्नौ- षधात्सा वरतनुर्न जीवेत् । अपि तु जीवेदेव । अन्यथा अन्तको यमो नासि । अपितु यम एवं | वरतनुरिति हेतुगर्भ विशेषणम् । तेन सा तनुरूपेति कृत्वा अवश्यं जीवनीयेति तात्पर्यम् । सा राधा न केवलं बाह्यवृत्त्या त्वय्यनुरक्ता किंतु सात्विक भावेनापि त्वदायत्तजीवितेति दर्शयन्त्याइ । तानेव सालिकान्भावान्विवृणोति ला रोमाञ्चतीति । 'स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमञ्जुप्रलया- वित्यष्टौ सात्विका मताः' । सा राधा रोमाञ्चति । रोमाथो विद्यते यस्य स रोमाश्चित इत्यर्थः । तद्वदाचरति रोमाञ्चति । अकारोऽत्र मत्वर्थीयः । रोमावतीत्यादिना रोमाञ्च उक्तः । सीत्करोतीति वैवर्ण्यम् । विलपत्युद्यातिभ्यामञ्जु । उद्यातीति निः- च्छ्रोतॄन्गायकांश्च । कीदृशम् । केशवपदमुप नीतम् ॥ ८ ॥ सा रोमाञ्चतीति । सा राधा रोमाचति रोमावानश्यति प्रफुलयति । उद्गमयतीत्यर्थः । यद्वा रोमाथोऽस्या 1 अस्तीत्यर्शआदित्वादच्प्रत्यये रोमाः सिद्धः स इवाचरति रोमाञ्चति । यद्वा रोमाषपदं ( लक्षणया रोमायवतीपरम् । तथा च ओजसीवाचरतीत्यादिवद्रो मायवतीवाचरतीत्यर्थः । अनेनाभिलाषः कथितः । सीस्करोति सीत्कारं करोति । अनेन चिन्तास्मृती कथिते । अथ च विलपति स शूरः सुन्दरश्चेत्यादिनायकगुणान्विशेषेणालपति । अनेन गुणकीर्तन- मुतम् । उत्कम्पते कथं विरहृदुःखं सोढव्यमिति कम्पयुक्ता भवति । साम्यति ग्लाना Is भवति । ध्यायति तव ध्यानं करोति । एतविशेषणैरुद्वेगावस्था कथिता । उद्धमति क्रीडादिस्थलं निर्दिशती भ्रमति । अनेन प्रलापः कथितः । प्रमीलति ध्यानकल्पितरादा- लिङ्गनादिजन्यसुखभावेन चक्षुषी निमीलयति । अनेनोन्माद: कथितः । पतति कार्येन स्थातुम शक्यतया भूमौ पतति पश्चाद्भावनया त्वां दृष्ट्वा कथं कथमप्युषाति त्वदभ्यु - इमनं करोति । अनेन व्याधिः कथितः । ततो मूर्च्छति मूर्च्छा प्राप्नोति । अनेन जडता कथिता । क्रियादीपकोऽयमलंकारः । तल्लक्षणमुक्तं प्राक् । ननु जडतापर्यंन्तावस्था यदि जातैव तदा किमङ्गसमेनेत्यत आह - एतादृशीति | हे स्वधावश्विनीकुमारी तत्प्रतिम तत्सदृश | एतादृश्यतनुज्वरे त्वं यदि प्रसीदसि तदा सा वरतनुः कमनीयदेहा ते तब 1: 4 १ 'एतादृश्यतनु' इति पाठः । २ 'धास्यन्तकः' इति पाठान्तरम् । Dgilized by Google 1 7 M