पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४] रसिकप्रिया- रसमञ्जर्याख्यटीकाद्वयोपेतम् नयनविषयमपि किसलयतल्पम् | . गणयति विहितहुताशविकल्पम् | राधिका० ॥६॥ हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेव निकामम् | राधिका० ॥ ७ ॥ श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुप नीतम् | राधिका० ॥ ८ ॥ विरहोद्रेको भवति । कमिव । बालशशिनमिव । अलोलमिति बालचन्द्रो हि सायं पाण्डुर्निःश्रीकञ्च भवति । कपोलस्य हस्तेनाच्छादितत्वाद्वालशशिनोपमा ॥ ५ ॥ अपि च । नयनेति । सा राधा किसलयतल्पं विहितहुताशविकल्पं कलयति । हुताशमेव जानाति । किंभूतं तल्पम् । नयनविषयमपि । अनुमितार्थे संसर्गे वा भ्रान्तिर्जायते । नयनविषयेऽपि अमेर्निर्निमित्तत्वान्नयनयोस्त्वय्यारोपितत्वं द्यो- व्यते ॥ ६ ॥ अपि च । हरिरितीति । सा मत्सखी निकाममतिशयेन सकामं साभिल्मषं यथा स्यात्तथा हरिरिति जपति त्वन्नाम गृहन्त्यास्ते । किंभूता | विरह- 'विहितमरणेव विरहेण विहितं मरणं यस्याः सा । अर्थात्तवैव । अन्योऽपि विहित मरणो हरिरिति हरिरिति जपत्येच ॥ ७ ॥ अपि च । श्रीजयदेवेति । श्रीजयदे- • वभणितं वर्णितं हरेः कृष्णस्य गीतं सुखयतु । भक्तानित्यध्याहारः । किंविशिष्टं गी- तम् । केशवपदमुप नीतं प्रापितम् । इदं श्रीजयदेवभणितं हरिगीतं केशवपदं • सुखयतु । केशवः पदं स्थानं यस्यासौ केशवपदः तं केशवपदं वैष्णवं सुखयतु । किंभूतं गीतम् । उपनीतमुप समीपं नीतं प्रापितमित्यर्थः । अत्र मात्राचतुष्पदी छन्दः । माना कथं नेतन्येति कपोलतले पाणिं कृत्वा सायं चिन्तयतीति भावः । कमिव । बाल- शशिनमिव द्वितीया चन्द्रमिव मुखार्थस्य करतलच्छन्नत्वेनार्धदृश्यमानतया विरहपाण्डुतया मुखस्य द्वितीयाचन्द्रसाम्यम् । इयमपि जडतावस्था ॥ ५ ॥ नयनेति । किंच सा

नयनविषयमपि चक्षुर्गोचरमपि किसलयतल्पं नवपलवशयनीयं विहितो हुताशनस्या-

विकल्पः संशयो यत्र तादृशं कलयति । अत्र किसलयेषु ताम्बत्वसंतापकत्वादिसमान- धर्मदर्शनादग्नित्वसंशयः । इयं चोद्विग्नावस्था तलक्षणं प्रागेवोचम् ॥ ६ ॥ हरिरितीति । सा निकाममतिशयेन हरिरिति हरिरिति जपति । केव । विरहेण त्वद्विश्लेषेण विधातुमारब्धं मरणं यया सा । कथम् । सकामं सामिलाषं यथा स्यात् तथा । अभिलाषादिषु नवम्यवस्थास्वभीतास्वपि त्वदौदायमालक्ष्य मरणाख्यापि दशम्यवस्था । । अवश्यं भवितव्यमिति निश्चित्य प्रपन्नानां क्लेशहरणाद्धरिरित्युच्यत इति को वेद प्रस- |नस्तस्मिन्नपि जन्मन्यागत्य मे केशं हरिष्यति मा आयातु तथापि 'अन्ते मतिः सा गति: " इति जन्मान्तरेऽपि स एव वल्लभो भूयादिति साभिलाषं नामान्तरं विहाय हरि.. रित्येवं जपतीति भावः । विहितेत्यत्र 'आदिकर्मणि क्तः कर्तरि च' इति कः ॥ ७॥ श्रीजय देवेति । इत्यमुना प्रकारेण जयदेवेन भणितमुञ्चारितं सुखयंतु । अर्था- Dgilized by by Google