पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

190 गीतगोविन्दकाव्यम् [सर्गः ४ सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् | राधिका० ॥२॥ श्वसित पवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् | राधिका० ॥ ३ ॥ दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् | राधिका० ॥ ४ ॥ त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् | राधिका० ॥ ५ ॥ त्कृशतनोर्हारोऽपि भारोपमो भवति ॥ १ ॥ अपि च । सरसेति । सा मत्सखी चपुषि वर्तमानं मलयजप सशङ्कं यथा स्यात्तथा विषभिव पश्यति । किंविधम् । सरसमसृणमपि सरसं च तन्मसृणं च सरसमसृणं द्रवरूपात्स्निग्धकोमलमपि ॥ २ ॥ अपिच । श्वसि तेति । सा मत्सखी श्वसितपवनं मदनदहनमिव कामाग्निमिव वहति । किंभूतम् । सदाहं दाहसहितम् । विरहेणान्तस्तापो विद्यते तेन सहितम् । किंभूतम् । अनुपमपरि- गाहम् । निःश्वासानामतिदीर्घलात् ॥ ३ ॥ अपिच | दिशि दिशीति | सा राधा । नयननलिनं दिशि दिशि किरति विक्षिपति । त्वदर्शनाकाङ्क्षयेति शेषः । सजलकण- जालं जलकणसमूहेन सह वर्तमानम् उत्प्रेक्षते । विगलितनालमिव विक्षिप्तं नयन विनालेन नलिनेनोपमीयते । अथवात्र उच्छूनत्वात्कजलरहितत्वाद्दीनत्वाच विनालेन कमलेनोपमीयते ॥ ४ ॥ त्यजतीति । सा राधा पाणितलेन कपोल न त्यजति । चिन्तावशात् । किंभूतं कपोलम् । अलोलम् । क्व सायम् । सायं हि विशेष- तत्र हेतुगर्भ विशेषणमाह- कृशतनुरिति । कृशा तनुरङ्गं यस्याः सा ॥ १ ॥ किंच सरसेति । मलयजपङ्कं चन्दनपङ्कं वपुषि देहे सशङ्कं शङ्कासहितं यथा स्यादेवं विषमिव पश्यति । कीदृशम् । सरसमसृणमपि । आर्द्रचिऋणमपीत्यर्थः । कर्दमपापयोः इति विश्वः । 'मसृणः कर्कशे लिग्धे' इति मेदिनी ॥ २ ॥ श्वसितेति । सा श्वसि- तपवनं श्वासवायुं वइति धारयति । कीदृशम् । अनुपमपरिणाहं परिणाहो दैर्ध्य यस् तादृशम् । कमिव । मदनदहनमिव कामाझिमिव । कीदृशम् । सदाई दाहसहितम् । 'परिणाहो विशालता' इत्यमरः । एषा चला व्याध्यवस्था कथिता । तलक्षणं तु प्रागेवोक्तम् ॥ ३ ॥ दिशि दिशीति | सा दिशि दिशि नयननलिनं नेत्रपद्मं किरति क्षिपति 1 कीदृशम् । विगलितनालं विगलितस्त्रुटितो नालो दण्डो यस्य । पुनः की दृशम् । सजलकणजालं जलकणजालैरनुजलकणिकासमूहै: सहितम् । अत्रेवशब्दो बाक्यालंकारे । अत्र नेत्रस्य नलिनत्वेन निरूपणात्स्तिमितत्वं बोध्यम् । तेन जडता नवम्यवस्था ध्वनिता । तदुक्तं रसार्णवसुधाकरे- 'यत्र ध्यायति निःशङ्कं जडता सा प्रकीर्तिता । अत्र स्पर्शानभिज्ञत्वे वैवर्ण्य शिथिलाङ्गता ॥ अक्रीडाशेः कृतिः स्तम्भनिःश्वासकुश- तादयः ॥ इति ॥ ४ ॥ त्यजतीति । सा सायं संध्यासमये पाणितलेन करतलेन कपोलं न त्यजति । कीदृशम् । अलोलमचञ्चलम् । अस्तु यथा कथंचिन्नीतं रात्रिस्तु युगाय- y Google Dgilized by