पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् देशाख्यरागैकतालीतालाभ्यां गीयते । प्र० ॥ ९ ॥ ॥ १० ॥

स्तनविनिहितमपि हारमुदारम् | सा मनुते कृशतनुरिव भारम् । राधिका तब विरहे केशव ॥ ध्रुवम् ॥ १ ॥ अत्रावासशब्देन निलय उच्यते । प्रियसखीनां माला श्रेणि: जालायते। इतस्ततो गमनाय तद्रोधकत्वात् । वा प्रियसखीदत्ता मालापि जालायते । हरिणीबन्धनार्थी जालं क्षिप्यते तद्वदाचरति । अपि च । तापोऽपि देहतापोऽपि श्वसितेन निःश्व- सितेन दावामिज्वालावलीवाचरति । एवं तस्या हरिणीत्वं निरूप्य खेदमभिनय- त्याह । हा इति कष्टे । सा मत्सखी कथं वर्तते । यतः कामोऽपि शार्दूल- विक्रीडितं विरचयन् यमायते यम इवाचरति । शार्दूलः किल हरिणीं हन्तीत्युक्तिः अत्र च हरिणीवन्मत्सख्यास्त्वयि दृढानुरागोऽस्ति । निःस्नेहे स्नेहवत्तया पशुरूप- त्वेन हरिणीरूपमौचितीमावहति । निःस्नेहेऽस्नेहवति सैवेत्यप्यवधारणार्थ: । वृत्तमपि शार्दूलविक्रीडितम् । अत्र लुप्तोपमा । विरोधाभासव्वालंकारः ॥ १० ॥ इदानीं राघासखी खसखीविरहचेष्टितं देवे विनिवेदयति । पूर्व ध्रुवपदं व्याक्रियते ।

राधिका इति । हे केशव, राधिका तव विरहे वर्तते । अनुकम्प्या राधा राधिका ।

तस्या अनुकम्पां विधेहीत्यनुकम्पार्थेन द्योत्यते । इति ध्रुवः ॥ विरहे वर्तमाना राधा किं (किं) करोतीत्यपेक्षायां पदानामारम्भः। स्तनविनिहितमिति । हे केशव, • सा कृशतनुः स्तनविनिहितमप्युदारं मनोहरं हार भारमिव मनुते । विरहाधिक्या. ३ शिर्वायुना प्रचण्डो भवतीति ध्वनिः । सापि हरिणीरूपायते हरिणीवदाचरति । हा कष्टम् । कथम् । कन्दपोऽपि कामोऽपि परानन्दजनकोऽपि त्वद्वि रहे यमायते कृतान्त श्वाच- रति । किं कुर्वन् । शार्दूलस्य व्याघ्रस्य विक्रीडितं क्रीडां कुर्बम् । यथा हरिणी समन्ततः प्रदीप्तदावाग्निज्वालयोद्विमा व्याघ्रेण त्रसिता अग्रे व्याधजाएं विततं पशन्ती दशदिशं चकितं विलोकमाना कापि न निर्वृति लभते तथेयमपि व्याम्ररूपेण कामेन त्रासिता सस्त्रीष्यावासेषु कापि निर्वृति न लभत इति भावः । शार्दूलविक्रीडित छन्द इत्यपि ध्वनितम् । अत्र प्रथमपादे उद्वेगाख्याबस्था कथिता । तलक्षणं प्राक् । रोषे चाष्टमी व्याध्यवस्था कथिता । तदुक्तम् -'अभीष्टसंगमाभागाम्याभिः संतापलक्षणः |भत्र सं. तापनिःश्वासौ शीतवस्तुनिषेवणम् ॥ नोतरं भाषते प्रश्न नेक्षते न शृणोति च ॥ इति । 'शार्दूलो राक्षसान्तरे । भ्याघ्रे च पशुभेदे च इति विश्वः ॥ १० ॥ पुनरपि व्याधि- रूपामष्टमीमवस्थां संप्राप्य तां च गीतेन कथयति — स्तनेति । गीतस्यास्य देशाख्यरागः । | रूपकतालः । गीतार्थस्तु — हे केशन, तब विरहे सा राधिका अनुकम्प्या राधा स्तननिनिहितमपि स्तनयोरुपरि हठात्सखीजनैर्घृतमप्युदारमुत्कृष्टं हारमतिभारं मनुते । Dilized by Google