पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ४ श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् । हरिविरहाकुलबलवयुवतिसखीवचनं पठनीयम् ॥ सा बि० ॥९॥ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते । निगदति । अत्रापिरेवार्थे । इदमिति किम् । अहं तव चरणे निपतिता । सपदि मयि विषये त्वयि विमुखे सति सुधानिधिरपि सुधानिधानमपि तनुदाहं शरी- रदाहं तनुते । वा सुधानिधिश्चन्द्रोऽप्यतनुदाहं स्मरतापं तनोति । अतनु यथा स्यादिति च । अत्रातिशयोक्तिरलंकारः ॥ ८ ॥ श्रीजयदेवेति । हे वैष्णवाः, इदं श्रीजयदेवभणितं यदि मनसाधिकं नटनीयमभिनेतव्यम् । नटशब्देनात्र नाव्यस्याभिनयप्राधान्यादभिनयो विवक्षितः । अथवा नटनीयमित्या- खानीयम् । रसनीयमिति यावत् । 'नाट्यशब्दो रसे मुख्यः' इति भारतीये । किं- भूतमिदम् । सखीमधिकृत्य वर्तमानम् । तर्हि हरिविरहाकुलबल्लवयुक्त्या राधायाः संख्या वचनं पठनीयम् । जयदेवमणितिष्विदमेव सारमित्यर्थः ॥ ९ ॥ 'प्रतिमण्ठनतालेन रागे देशाङ्कसंज्ञिते । पदासुर्याक्षरैर्युक्तो पदात्संगमतस्तथा ॥ आकारोपचितालाप गमकाकुलविग्रहः । आभोगान्तेनकैः पाटै: प्रचुरैरतिपेशल: || हरिवल्लभपूर्वोऽय मशोकपलवः स्मृतः ॥ इति हरिवलभअशोकपल्लवनामाष्टमः प्रबन्धः ॥ ८ ॥ इदानीं कि बहुना मत्सख्यास्त्वदृते त्वयि विपरीते सर्वमेव विपरीतमित्याह- भावास इति । हे माधव, हन्त इति खेदे । सा मत्सखी त्वद्विरहेण हरिणीरूपायते मृगीरूपमिवाचरति । खभावतो विरहेण पाण्डुवर्ण भवत्येव । तत्तथाविधं रूपमधि- कृत्य हरिणीरूपेणोपमीयत इत्युक्ते कथमिति प्रश्ने हरिणीविशेषणेनाह । आवासो विपिनायते । हरिण्यः किल वने वसन्ति । तस्या मे सख्या आवासो बिपिनायते । त्वयि विमुखे पराखे सति सुधानिधिरमृतनिधिचन्द्रोऽपि तनुदाई मच्छरीरसंतापं तनुते विस्तारयति । त्वं माया लक्ष्म्या धवः स्वामी । चन्द्रस्य समुद्रोत्पत्तित्वालक्ष्म्याः | सहोदर इति । त्वयि निकटस्थिते सति सपन्या अपि मे किमपि न कर्तुं शक्रोति । त्वयि प्रतिकूले च सति स्वभगिनीसापत्न्यं मयि स्मरन्सुधानिधिरपि मे सनुदाहं तनुते इति माधवपदेन ध्वनितम् । सुभानिधेस्तापकारित्वं विरुद्धमिति विरुद्धनामायमलंकारः ॥ ८ ॥ श्रीजयदेषेति। जयदेवभणितं जयदेव कवित्वमतिशयितं यदि मनसा नटनीवं नर्तितव्यं तदा इदं एरिविरहेणाकुला व्याकुला या बलवयुवतिस्तया सखी दूतीवेन प्रेषिता तस्या वचनं पठनीयम् । श्यं विरहोत्कण्ठिता नायिका तलक्षणं तु प्रागेदोक्तम् ॥ ९ ॥ सा त्वां विना कुत्रापि न निर्वृति लभत इत्यत आह-आवास इति । तस्या- स्त्वद्विरहेणावासो मन्दिरं विपिनायतेऽरण्यमिवाचरति । यदा त्वद्विशेषदुःखासहिष्णुता जीवितमपि व्यक्तुं प्रवृत्ता भवति तदा सखीभिनिवार्यत इति । स्वच्छन्दव्यवहारप्रतिषन्ध- कतया जालबदाचरतीति भावः । अथ तापो विरहजनितस्तापो निःश्वसितेन निवासेन दावदहनज्वालाया दावाग्निशिखाया यः कलापः समूहः स श्वाचरति । अपरोऽपि दावा- १ 'तापो निःवसितेन' इति पाठः । Google Dgilized by